पूर्वम्: ५।३।९९
अनन्तरम्: ५।३।१०१
 
सूत्रम्
देवपथादिभ्यश्च॥ ५।३।१००
काशिका-वृत्तिः
देवपथादिभ्यश् च ५।३।१००

इवे प्रतिकृतौ ५।३।९६, संज्ञायां च ५।३।९७ विहितस्य कनो देवपथादिभ्य उत्तरस्य लुब् भवति। आदिशब्दः प्रकारे। आकृतिगणश्च अयम्। देवपथः। हंसपथः। अर्चासु पूजनार्थासु चित्रकर्मध्वजेषु च। इवे प्रतिकृतौ लोपः कनो देवपथादिषु। अर्चासु तावत् शिवः। विष्णुः। चित्रकर्मणि अर्जुनः। दुर्योधनः। ध्वजेषु कपिः। गरुडः। सिंहः। देवपथ। हंस्पथ। वारिपथ। जलपथ। राजपथ। शतपथ। सिंहगति। उष्ट्रग्रीवा। चामरज्जु। रज्जु। हस्त। इन्द्र। दण्द। पुष्प। मत्स्य।
न्यासः
देवपथादिभ्यश्च। , ५।३।१००

"देवपद्यः" इति। देवानां पन्था इति षष्ठीसमासः। "ऋक्पः ५।४।७४ इत्यादिनाकारः समासान्तः, कन्(), तस्य सुप्()॥
बाल-मनोरमा
देवपथादिभ्यश्च , ५।३।१००

देवपथादिभ्यश्च। कनो लुप् स्यादिति। शेषपूरणमिदम्। "इवे प्रतिकृतौ" इति विहितस्य देवपथादिभ्यः परस्य कनो लुप्स्यादिति यावत्। देवपथ इति। देवानां पन्थाः देवपथः। तत्प्रतिकृतिरित्यर्थः। "इवे प्रतिकृतौ लोपः कनो देवपथादिषु" इति। अर्चाः=प्रतिमाः। पूजार्थासु तासु, चित्रकर्मसु, ध्वजेषु देवपथादिगणपठितेषु "इवे प्रतिकृतौ"विहितस्य कनो लुबित्यर्थः। "तद्राजस्ये" ति सूत्रे कैयटोऽप्येतं श्लोकं पपाठ। अर्चासु यथा--शिवो विष्णुर्गणपतिरित्यादि। चित्रकर्मसु यथा--रावणः कुम्भकर्णः इन्द्रजिदित्यादि। ध्वजेषु यथाकपिः गरुडः वृषभ इत्यादि।

तत्त्व-बोधिनी
देवपथादिभ्यश्च १५३४, ५।३।१००

देवपथ इत्यादि। देवपथ इव प्रतिकृतिः हंसपथ इव प्रकृतिरिति विग्रहः।