पूर्वम्: ५।३।१०१
अनन्तरम्: ५।३।१०३
 
सूत्रम्
शिलाया ढः॥ ५।३।१०२
काशिका-वृत्तिः
शिलाया ढः ५।३।१०२

शिलाशब्दादिवार्थे ढः प्रत्ययो भवति। शिलेव शिलेयं दधि। केचिदत्र ढञम् अपि इच्छन्ति, तदर्थं योगविभागः कर्तव्यः। शिलायाः ढञ् प्रत्ययो भवति। शैलेयम्। ततो धः। शिलेयम्।
न्यासः
शिलाया ढः। , ५।३।१०२

बाल-मनोरमा
शिलाया ढः , ५।३।१०२

शिलाया ढः। इवे इत्येव। शिलेव शिलेयमिति। "दध्यादी"ति शेषः। योगेति। "शिलाया" इत्येको योगः। ढञित्यनुवर्तते, इवे इति च। शैलेयमिति। ञित्त्वादादिवृद्धिः, स्त्रियां, ङीप् च फलम्। "ढः" इति द्वितीयो योगः। शिलाया इत्यनुवर्तते। उक्तोऽर्थः।