पूर्वम्: ५।३।१०
अनन्तरम्: ५।३।१२
 
सूत्रम्
इदमो हः॥ ५।३।११
काशिका-वृत्तिः
इदमो हः ५।३।११

इदमः सप्तम्यन्ताद् हःप्रत्ययो भवति। त्रलो ऽपवादः। इह।
लघु-सिद्धान्त-कौमुदी
इदमो हः १२०८, ५।३।११

त्रलोऽपवादः। इह॥
न्यासः
इदमो हः। , ५।३।११

बाल-मनोरमा
इदमो हः १९३३, ५।३।११

इदमो हः। इदंशब्दात्सप्तम्यन्तात् हप्रत्ययः स्यादित्यर्थः।