पूर्वम्: ५।३।११०
अनन्तरम्: ५।३।११२
 
सूत्रम्
प्रत्नपूर्वविश्वेमात्थाल् छन्दसि॥ ५।३।१११
काशिका-वृत्तिः
प्रत्नपूर्वविश्वैमात् थाल् छन्दसि ५।३।१११

प्रत्न पूर्व विश्व इम इत्येतेभ्यः इवार्थे थाल्प्रत्ययो भवति छन्दसि विषये। तं प्रत्नथा पूर्वथा विश्वथेमथा।