पूर्वम्: ५।३।१११
अनन्तरम्: ५।३।११३
 
सूत्रम्
पूगाञ्ञ्योऽग्रामणीपूर्वात्॥ ५।३।११२
काशिका-वृत्तिः
पूगाञ् ञ्यो ऽग्रामणीपूर्वात् ५।३।११२

इवार्थे इति निवृत्तम्। नानाजातिया अनियतवृत्तयो ऽर्थकाम् अप्रधानाः सङ्घाः पूगाः। पूगवाचिनः प्रातिपदिकातग्रामणीपूर्वात् स्वार्थे ञ्यः प्रत्ययो भवति। लौहध्वज्यः, लौहध्वज्यौ, लोहध्वजाः। शैव्यः, शैब्यौ, शिबयः। चातक्यः, चातक्यौ, चातकाः। अग्रामणीपूर्वातिति किम्? देवदत्तो ग्रामणीरेषां त इमे देवदत्तकाः। यज्ञदत्तकाः।
न्यासः
पूगाञ्ञ्योऽग्रामणीपूर्वात्?। , ५।३।११२

"पूर्वात्? इति। पूर्वशब्दोऽवयववाची। ग्रामणीः पूर्वो यस्य तत्? ग्रामणीपूर्वम्()। प्रतिषेधेन च स्वरूपग्रहणं भवतीति विज्ञायते। पूगशब्देन स्वरूपे गृह्रमाणे ग्रामणीपूर्वतः प्राप्तिरेव नास्ति; ग्रहणवता प्रातिपादिकेन (व्या।प।८९) तदन्तविधः प्रतिषेधात्()। "लोहष्वजाः" इति कन्()। अत्र देवदत्तशब्दः पूर्वग्रामणीरवयव इति न प्रत्ययः॥
बाल-मनोरमा
पूगाञ्ञ्योऽग्रामणीपूर्वात् , ५।३।११२

पूगाञ्ञ्यः। इवार्थो निवृत्त इति। व्याख्यानादिति भावः। अनियतवृत्तय इति। उद्वृत्ता इत्यर्थः। तद्वाचकादिति। पूगेति न स्वरूपग्रहणं, व्याख्यानात्। ग्रामणीवाचकपूर्वावयवकभिन्नात्पूगवाचकादित्यर्थः। लौहितध्वज्य इति। लोहिता ध्वजा यस्य पूगस्य स लोहितध्वजः। सएव लौहितध्वज्यः। व्रातच्फञोरस्त्रियामिति। इदं सूत्रम्। "गोत्रे कुञ्जादिभ्यः" इत्यत्र प्रसङ्गादुपादाय व्याख्यातम्। व्रात इति। उदाहरणसूचनमिदम्। भारोद्वहनादिशरीरायासजीवनान्नानाजातीयानामनियतवृत्तीनां सङ्घो व्रातः। कापोतपाक्य इति। कपोतान्=पक्षिविशेषान् भक्षणाय पचतीति कपोतपाकः, स एव कापोतवाक्यः। पचेः कर्तरि घञ्, "चजोः कु घिण्ण्यतो"रिति कुत्वम्। च्फञिति। उदाहरणसूचनमिदम्। कौञ्जायन्य इति। गोत्रे कुञ्जादिभ्यः" इति च्फञ्। आयन्नादेशः। ततः स्वार्थे अनेन ञ्यः। एवं व्राध्नायन्यः।

तत्त्व-बोधिनी
पूगाञ्?ञ्योऽग्रामणीपूर्वात् १५३८, ५।३।११२

पूगाञ्()ञ्यो। स्वरूपग्रहणं तु न भवति, "अग्रामणीपूर्वा"दिति वचनात्। पूर्वशब्दो ह्रवयववचनः। अग्रामणो पूर्वादिति किम्()। देवदत्तो ग्रामणीर्येषां ते देवदत्तकाः। "स एषां ग्रामणी"रिति कन्। अत्र समुदायः पूगवचनः। लौहितध्वज्य इति। लोहितो ध्वजो यस्य सङ्घस्य स लोहितध्वजः। स एव लौहितध्वज्यः। व्रातच्फञोः। उत्सेधजीवित्वं व्रातस्य पूगाद्विशेषः। उत्सेधः=शरीरायासः। कौञ्जायन्य इति। "गोत्रे कुञ्जादिभ्यः"इति च्फञ्।