पूर्वम्: ५।३।११८
अनन्तरम्: ५।४।१
 
सूत्रम्
ञ्यादयस्तद्राजाः॥ ५।३।११९
काशिका-वृत्तिः
ञ्यादयस् तद्राजाः ५।३।११९

पूगाञ् ञ्यो ऽग्रामणीपूर्वात् ५।३।११२ इत्यतः प्रभृति ये प्रत्ययाः, ते तद्राजसंज्ञा भवन्ति। तथा च एव उदाहृतम्। तद्राजप्रदेशाः तद्राजस्य बहुसु इत्येवम् आदयः। इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ पञ्चमाध्यायस्य तृतीयः पादःपञ्चमाध्यायस्य चतुर्थः पादः।
न्यासः
ञ्यादयस्तद्राजाः। , ५।३।११९

इति श्रीबोधिसत्त्वदेशीपाचार्यश्रीजिनेन्द्रबुद्धिपादविरचितायां काशिकाविवरणपञ्चिकायां पञ्चमस्याध्यायस्य तृतीय पादः॥ * * * अथ पञ्चमोऽध्यायः चतुर्थः पादः
बाल-मनोरमा
ञ्यादयस्तद्राजाः , ५।३।११९

ञ्यादयस्तद्राजाः। लोहितध्वजा इति। "पूगा"दिति विहितस्य ञ्यस्य तद्वाजत्वाद्बहुत्वे लुक्। कपोतपाकाः कौञ्जायनाः ब्राआध्नायना इति। "व्रातच्फञो"रिति विहितस्य ञ्यस्य लुक्। इत्यादीति। क्षौद्रक्यौ, क्षुद्रकाः। "आयुधजीवी"ति ञ्यटो लुक्। वार्केण्यः, वार्केण्यौ, वृकाः। वृकाट्टेण्यणो लुक्। दामनीयः, दीमनीयौ, दामनयः, कौण्डोपरथाः इत्यादौ "दामन्यादित्रिगर्तषष्ठा"दिति छस्य लुक्। पार्शवौः, पार्शव, पर्शवः, यौधेयाः इत्यत्र पर्(ाआदियौधेयाद्यणञोर्लुक्। आभिजित्यः आभिजित्यौ, अभिजितः, विदभृत इत्यादौ "अभिजिद्विदभृ"दित्यादिविहितस्य यञो लुगिति भावः। इति पञ्चमस्य तृतीयपादः।