पूर्वम्: ५।३।११
अनन्तरम्: ५।३।१३
 
सूत्रम्
किमोऽत्॥ ५।३।१२
काशिका-वृत्तिः
किमो ऽत् ५।३।१२

किमः सप्तम्यन्तादत् प्रत्ययो भवति। त्रलो ऽपवादः। क्व भोक्ष्यसे। क्वाध्येष्यसे। त्रलम् अपि केचिदिच्छन्ति कुत्र। तत्कथम्? उत्तरसूत्राद् वावचनं पुरस्तादपकृष्यते।
लघु-सिद्धान्त-कौमुदी
किमोऽत् १२०९, ५।३।१२

वाग्रहणमपकृष्यते। सप्तम्यन्तात्किमोऽद्वा स्यात् पक्षे त्रल्॥
न्यासः
किमोऽत्?। , ५।३।१२

"क्व" इति। "क्वाति" ७।२।१०५ इति किमः क्वादेशः "न विभक्तौ तुस्माः १।३।४ इति प्रतिषेधस्य "इवमस्थमुः" ५।३।२४) इत्युकारेणानित्यत्वस्य ज्ञपितत्वादित्संज्ञा तकारस्य। दानीमस्तु प्रतिषेधान्नास्तीत्संज्ञा; प्रयोजनाभावाच्च॥
बाल-मनोरमा
किमोऽत् १९३४, ५।३।१२

किमोऽत्। अपकृष्यत इति। "वा ह च छन्दसी"त्युत्तरसूत्रादिति शेषः। अपकर्षे व्याख्यानमेव शरणम्। अत्प्रत्यये तकार इत्। "न विभक्ता"विति निषेधस्तु न भवति, "तवर्गस्येत्त्वप्रतिषेधोऽतद्धिते" इति वार्तिकात्।

तत्त्व-बोधिनी
किमोऽत् १४७५, ५।३।१२

किमोऽत्। "न विभक्तौ तुस्माः"इतिनिषेधोऽत्र न प्रवर्तते, थमोरुकारेण मकारपरित्राणार्थेनाऽनित्यताज्ञापनात्। वाग्रहणमिति। "किमोऽद्वा"इति सूत्रं पठित्वा "ह च छन्दसी"ति सूत्रयितुं युक्तम्।