पूर्वम्: ५।३।२०
अनन्तरम्: ५।३।२२
 
सूत्रम्
अनद्यतने र्हिलन्यतरस्याम्॥ ५।३।२१
काशिका-वृत्तिः
अनद्यतने र्हिलन्यतरस्याम् ५।३।२१

छन्दसि इति न स्वर्यते। सामान्येन विधानम्। किंसर्वनामबहुभ्यः सप्तम्यन्तेभ्यः अनद्यतने कालविशेषे वर्तमानेभ्यः र्हिल् प्रत्ययो भवत्यन्तरस्याम्। कर्हि, कदा। यर्हि, यदा। तर्हि, तदा।
लघु-सिद्धान्त-कौमुदी
अनद्यतने र्हिलन्यतरस्याम् १२१६, ५।३।२१

कर्हि, कदा। यर्हि, यदा। तर्हि, तदा॥
न्यासः
अनद्यतने र्हिलन्यतरस्याम्?। , ५।३।२१

तसिलादिषु प्राप्तेषु हिल्प्रत्ययो विधीयते। "कहि" इति। "किमः कः" ७।२।१०३। "कदा, यदा, तदा" इति। "सर्वैकान्यकियत्तदः काले दा" ५।३।१५
बाल-मनोरमा
अनद्यतने र्हिलन्यतरस्याम् १९४४, ५।३।२१

अनद्यतने र्हिल्। अनद्यतनकालवृत्तिभ्यः किमादिभ्यः सप्तम्यन्तेभ्यः र्हिल्प्रत्ययो वा स्यादित्यर्थः। पक्षे दाप्रत्ययः। एतर्हीति। एतच्छब्दात् र्हिल्। "एतद" इति योगविभागाद्रेफादौ एतादेशः।

तत्त्व-बोधिनी
अनद्यतने र्हिलन्यतरस्याम् १४८०, ५।३।२१

एतस्मिन्काले एतर्हीति। "एतदः"इति योगविबागाद्रेफादावेतादेशः।