पूर्वम्: ५।३।२३
अनन्तरम्: ५।३।२५
 
सूत्रम्
इदमस्थमुः॥ ५।३।२४
काशिका-वृत्तिः
इदमस् थमुः ५।३।२४

इदंशब्दात् प्रकारवचने थमुः प्रत्ययो भवति। थालो ऽपवादः अनेन प्रकारेण इत्थम्। उकारो मकारपरित्राणार्थः।
लघु-सिद्धान्त-कौमुदी
इदमस्थमुः १२१९, ५।३।२४

थालोऽपवादः। (एतदोऽपि वाच्यः)। अनेन एतेन वा प्रकारेण इत्थम्॥
न्यासः
इदमस्थमुः। , ५।३।२४

बाल-मनोरमा
इदमस्थमुः १९४७, ५।३।२४

इदमस्थमुः। इदंशब्दात्प्रकारवृत्तेस्थमुप्रत्ययः स्यादित्यर्थः। प्रत्यये उकार उच्चारणार्थः। मकारस्य उपदेशेऽन्त्यत्वाऽभावान्नेत्त्वम्। यद्यपि "न विभक्तौ" इति निषेधादेव मस्येत्त्वं न भवति, ततापि तदनित्यत्वज्ञापनार्थं मकारोच्चारणमित्याहुः। इत्थमिति। "एतेतौ रथो"रिति प्रकृतेरिदम इदादेशः। एतच्छब्दात्थमुप्रत्यये तु "एतद" इति योगविभागादिदादेशः।