पूर्वम्: ५।३।२८
अनन्तरम्: ५।३।३०
 
सूत्रम्
विभाषा परावराभ्याम्॥ ५।३।२९
काशिका-वृत्तिः
विभाषा परावराभ्याम् ५।३।२९

परावरशब्दाभ्यां विभाषा अतसुच् प्रत्ययो भवति अस्तातेरर्थे। परतो वसति। पर्त आगतः। परतो रमणीयम्। परस्ताद् वसति। परस्तादागतः। परस्ताद् रमणीयम्। अवरतो वसति। अवरत आगतः। अवरतो रमणीयम्। अवरस्तद् वसति। अवरस्तादागतः। अवरस्ताद् रमणीयम्।
न्यासः
विभाषा परावराभ्याम्?। , ५।३।२९

बाल-मनोरमा
विभाषा परावराभ्याम् , ५।३।२९

विभाषा। "अतसु"जिति शेषः। पक्षे अस्तातिः।