पूर्वम्: ५।३।२
अनन्तरम्: ५।३।४
 
सूत्रम्
इदम इश्॥ ५।३।३
काशिका-वृत्तिः
इदम् इश् ५।३।३

प्राग् दिशः। इदम् इशित्ययम् आदेशो भवति प्राग्दिशीयेषु प्रत्ययेशु परतः। शकारः सर्वादेशार्थः। इह।
न्यासः
इदम इश्?। , ५।३।३

"शकारः सर्वादेशार्थः" इति। असकति हि तस्मिन्? "अलोऽन्त्यस्य" १।१।५१ स्यात्()। ततश्चेद्रूपस्य हलि लोपे ७।२।११३ कृते, "आद्गुणे" ६।१।८४ चैतः, एहेत्यनिष्टं रूपं स्यात्()। ननु चेदमस्त्यदाद्यत्वे ७।२।१०२ कृतेऽतो गुणे ६।१।९४ पररूपत्वे चेद्रूपलोपे चान्त्यस्याप्यादेश इतः, इहेति सिध्यत्येव? सिध्येद्यदि प्राक्? त्यदाद्यत्वं लभ्येत; न तु तल्लभ्यम्(), इत्वमेव हि तावदन्तरङ्गं स्यात्()। इत्वं हि तसिलादिप्रत्ययंमात्रमपेक्षत इत्यन्तरङ्गम्(), त्याद्यत्वमङ्गसंज्ञां परस्य प्रत्ययस्य विभ्कितत्वं चापेक्षत इति बहिरङ्गम्(), तस्माच्छाकरः कत्र्तव्यः॥
बाल-मनोरमा
इदम इश् १९२४, ५।३।३

इदम इश्। "प्रग्दिशीये परे" इति--शेषपूरणम्। प्रकरणलभ्यमिदम्। शित्त्वात्सर्वादेशः। "इत" इत्युदाहरणम्।