पूर्वम्: ५।३।३५
अनन्तरम्: ५।३।३७
 
सूत्रम्
दक्षिणादाच्॥ ५।३।३६
काशिका-वृत्तिः
दक्षिणादाच् ५।३।३६

अदूरे इति न स्वर्यते। अपञ्चयाः इति वर्तते। दक्षिणशब्दाताच्प्रत्ययो भवति अस्तातेरर्थे। दक्षिणा वसति। दक्षिणा रमणीयम्। अपञ्चम्याः इत्येव, दक्षिणत आगतः। चकारो विशेषणार्थः। अञ्चूत्तरपदाजाहियुक्ते इति।
न्यासः
दक्षिणादाच्?। , ५।३।३६

"चकारो विशेषणाअरह्थः" इति। असति हि तस्मिन्? पश्चाशब्द आकारान्तो निपातित इति तेनापि योगे पञ्चमी स्यात्()। स्वरार्थस्तु चकारो नोपपद्यते; प्रत्ययस्वरेणैव सिद्धत्वात्()॥
बाल-मनोरमा
दक्षिणादाच् , ५।३।३६

दक्षिणादाच्। अस्तातेविंषये इति। एतेन अदूरे इति नानुवर्तत इति सूचितम्। एवञ्च आच्प्रत्यये, उत्तराधरदक्षिणा"दित्यातिप्रत्यये, "दक्षिणोत्तराभ्या"मित्यतसुचि च त्रीणि रूपाणि।

बाल-मनोरमा
तद्युक्तात्कर्मणोऽण् , ५।३।३६

तद्युक्तात्। संदिष्टार्थया दूतवाचा यत्प्रयुक्तं कर्म तदभिधायिनः कर्मन्शब्दात्स्वार्थे अण्णित्यर्थः। कर्मैव कार्मणमिति। "अ"न्निति प्रकृतिभावान्न टिलोपः। दूतवाक्यं श्रुत्वा तथैव यत्क्रियते कर्म तत्कार्मणमुच्यते। तदाह--वाचिकं श्रुत्वेति।

तत्त्व-बोधिनी
तद्युक्तात्कर्मणोऽण् १५६६, ५।३।३६

वाचिकमिति। "स्वार्थिकाःस क्वचिल्लिङ्गमतिवर्तन्ते"इति नपुंसकत्वम्।