पूर्वम्: ५।३।३७
अनन्तरम्: ५।३।३९
 
सूत्रम्
उत्तराच्च॥ ५।३।३८
काशिका-वृत्तिः
उत्तराच् च ५।३।३८

उत्तरशब्दादाजाही प्रत्ययौ भवतः अस्तातेरर्थे दूरे चेदवधिमानवधेर् भवति। उत्तरा वसति, उत्तराहि वसति। उत्तरा रमणीयम्, उत्तराहि रमणीयम्। दूरे इत्येव, उत्तरेण प्रयाति। पञ्चम्याः इत्येव, उत्तरादागतः।
न्यासः
उत्तराच्च। , ५।३।३८

"आजाही प्रत्ययौ भक्तः" इति। ननु चानन्तर्यादाहिरेव प्राप्नोति? नन; चकारोऽत्र क्रियते, स हि व्यवहितमप्याचं समुच्चिनोति। तेनाऽ‌ऽजपि भविष्यतीति॥
बाल-मनोरमा
उत्तराच्च , ५।३।३८

उत्तराच्च। "आच् आहि चे"ति शेषः। अतसुचा आतिना च चत्वारि रूपाणि।