पूर्वम्: ५।३।३८
अनन्तरम्: ५।३।४०
 
सूत्रम्
पूर्वाधरावराणामसि पुरधवश्चैषाम्॥ ५।३।३९
काशिका-वृत्तिः
पूर्वाधरावरानाम् असि पुरद्वश् च एषाम् ५।३।३९

अपञ्चम्याः इति निवृत्तम्। तिसृणां विभक्तीनाम् इह ग्रहणम्। पूर्वाधरावराणाम् असिः प्रत्ययो भवति अस्तातेरर्थे। तत् संनिओगेन च एषाम् यथासङ्ख्यं पुरद्H अवित्येते आदेशा भवन्ति। असि इत्यविभक्तिको निर्देशः। पुरो वसति। पुर आगतः। पुरो रमणीयम्। अधो वसति। अध आगतः। अधो रमणीयम्। अवो वसति। अव आगतः। अवो रमणीयम्।
न्यासः
पूर्वाधरावराणामसि पुरधवश्चैषाम्?। , ५।३।३९

पूर्वादस्तातौ प्राप्तेस्ताताववारादपि विभाषातसुचीदमारभ्यते। अथ "एषाम्()" इति किमर्थमिदमुच्यते, यावता येयं पूर्वादिषु षष्ठी सैव प्रत्ययं विधाय स्थाने षष्ठी विज्ञायते, सम्बन्धभेदाच्च षष्ठ()र्थभेदः? सत्यमेतत्(); तथापि सुखप्रतिपत्त्यर्थमेषामित्युक्तम्()॥
बाल-मनोरमा
पूर्वाधरावराणामसिपुरधवश्चैषाम् , ५।३।३९

पूर्वाधरावराणम्। "असी"ति लुप्तप्रथमाकम्। पुर अध्, अव्-एषां द्वन्द्वात्प्रथमाबहुवचनम्। अस्तात्यर्थे इति। दिग्देशकालवृत्तिभ्य इत्यर्थः।