पूर्वम्: ५।३।४७
अनन्तरम्: ५।३।४९
 
सूत्रम्
पूरणाद्भागे तीयादन्॥ ५।३।४८
काशिका-वृत्तिः
पूरणाद् भागे तीयादन् ५।३।४८

पूरणप्रत्ययो यस्तीयः, तदन्तात् प्रातिपदिकाद् भागे वर्तमानात् स्वार्थे अन् प्रत्ययो भवति। स्वरार्थम् वचनम्। द्वितीयो भागः द्वितियः। तृतीयः। भागे इति किम्? द्वितीयम्। तृतीयम्। पूरणग्रहणम् उत्तरार्थम्, न ह्यपूरणस्तीयो ऽस्ति। मुखतीयादिरनर्थकः।
न्यासः
पूरणाद्भागे तीयादन्?। , ५।३।४८

"पूरणप्रत्ययो यस्तीयः" इति। "तस्य पूरणे डट्()" ५।२।४८ इति पूरणाधिकारे विहितत्वात्(), पूरणाभिधेयत्वाद्वा। उपचारेम प्रत्योऽपि तीयः पूरण इत्युच्ये। "भागे" इति। अंश इत्यर्थः। किमर्थं पुनरिदम्(), यावता कृतेऽप्यनि रूपं तदेव? इत्याह--"स्वरार्थं वचनम्()िति। विभागे नित्स्वरेणाद्युदात्तं यथा स्यात्()। "पूरणग्रहणमुत्तरार्थम्()" इति। उत्तरत्र पूरणप्रत्ययान्तात्प्रत्ययो यथा स्यात्()। तस्य च व्यवच्छेदाय क्रियमाणं पूरणमिहाप्यर्थवत्? स्यात्(), स च नास्तीति नेहार्थता तस्योपपद्यते। ननु च "मुखपार्(ातसेरीयः", (वा। ४६०) "पार्(ातीयः" इत्यपूरणोऽपि सोऽस्ति? इत्यत आह--"मुखतीयादिरनर्थकः" इति। अर्थवद्ग्रहणपरिभाषया (व्या।प। १) अर्थवानिह तीयो गृह्रते, न च मुखतीयादिरनर्थवान्()। अतः सत्यपि पूरणग्रहणे तस्य ग्रहणंन भविष्यतीति भावः॥
बाल-मनोरमा
पूरणाद्भागे तीयादन् , ५।३।४८

पूरणाद्भागे। पूरणार्थकतीयप्रत्ययान्ताद्भागे विद्यमानात्स्वार्थे अन्स्यादित्यर्थः। अन्विधेः प्रयोजनमाह--स्वरे विशेष इति। "ञ्नित्यादिर्नित्य"मिति स्वरे इत्यर्थः।

तीयादीकगिति। वार्तिकमिदं "दृष्टं सामे"ति सूत्रभाष्ये स्थितम्।

न विद्याया इति। वार्तिकमिदमपि तत्रैव स्थितम्। विद्यावृत्तेस्तीयप्रत्ययान्तादीकङ्नेत्यर्थः।

तत्त्व-बोधिनी
पूरणाद्भागे तीयादन् १४९३, ५।३।४८

पूरणाद्भागे। पूरणार्थत्वात्तीयप्रत्ययः पूरणशब्देनोक्तः। पूरणग्रहणं चोत्तरार्थम्, न ह्रपूरणस्तीयप्रत्ययो भवति। मुखतीयः इत्यत्र त्वनर्थकत्वान्नतिप्रसङ्गः। भग इति पुंस्त्वं विवक्षितम्। तेन समानेऽप्यर्थे विभक्तौ विवक्षितायां चतुर्थी पञ्चमीत्येव भवति। "प्रागेकादशभ्यः"इत्यनि सति तु टापि चतुर्था पञ्चमेति प्रसज्येत।