पूर्वम्: ५।३।४
अनन्तरम्: ५।३।६
 
सूत्रम्
एतदोऽश्॥ ५।३।५
काशिका-वृत्तिः
एतदो ऽश् ५।३।५

प्राग्दिशः इत्येव। एतदः प्राग्दिशीये परतः अशित्ययम् आदेशो भवति। शकारः सर्वादेशार्थः। अतः। अत्र। एतदः इति योगविभागः कर्तव्यः। एतदो रथोः परत एत इतित्येतावादेशौ भवतः। एतर्हि। इत्थम् रेफादेः अनद्यतने र्हिलन्यतरस्याम् ५।३।२१ इति विद्यत एव। थमुप्रत्ययः पुनरेतद उपसङ्ख्येयः।
लघु-सिद्धान्त-कौमुदी
एतदः १२१७, ५।३।५

एत इत् एतौ स्तौ रेफादौ थादौ च प्राग्दिशीये। एतस्मिन् काले एतर्हि॥
न्यासः
एतदोऽश्?। , ५।३।५

"शकारः सर्वादेशार्थः" इति। ननु चान्त्यस्य स भवन्? यदि तावदकृते त्यदाद्यत्वे भवति ततो दकारस्य भवन्ननर्थकः प्रसज्येत, त्यदाद्यत्वेनापि हि तस्याकारो लभ्यत एव; अथ त्यदाद्यत्वे कृतेऽकारस्य स्थाने भवन्ननर्थक एव प्रसज्यते न ह्रकारस्याकारवचने प्रयोजनमस्ति, कृतवांश्च; तत्र वचनादसत्यपि शकारे सर्वादेशो भविष्यति? नैतदस्ति; अस्ति ह्रकारस्याकारवचने प्रयोजनम्()। किम्()? अतः, अत्रेत्यत्र योऽन्यः प्राप्नोति स मा भृदिति। कः पुनरसौ? लिति प्रत्ययात्? पूर्वस्योदात्तः। तस्माच्छकारः कत्र्तव्यः। "थमुः [थमुप्रत्ययः पुनरेतद उपसंख्येयः---काशिका] पुनरुपसंख्येयः" इति। तस्याविद्यमानत्वत्()। उपसंख्येय इति प्रतिपाद्य इत्यर्थः। तत्रेदं प्रतिपादनम्()--एत एव थकारादावादेशवचनं ज्ञापयति--भवत्येतदस्थमुरिति। कुतो नु खल्वेतत्()? ज्ञापकात्()। थमु भैविष्यति, न पुनर्थं एवासौ "प्रकारवचने थाल्()" (५।३।२३) इत्यविशेषविहितस्थकारादिस्तस्मिन्नेवादेशः स्यात्? नैष दोषः; इदमस्थकारादिविशेष इष्यते। "एतदः" इत्यत्त्रापि ह्रेदम इत्यनुवत्र्तते, तच्च नादेशविधानार्थम्(); आदेशस्य पूर्वमेव विहितत्वात्()। तस्मात्? प्रत्यविशेषणं विज्ञायते। तत एतेन थकारादि विशेषयिष्यामः--इदम इत्येवं यो विहित इदंशब्देनैव यो विहितस्थकारादिरिति, थमुरेव चैवं विहितः, न थालिति युक्तमुक्तमादेशवचनं ज्ञापयति--भवत्येवैतदस्थमुरिति॥
बाल-मनोरमा
एतदोऽन् १९२६, ५।३।५

एतदोऽन्। प्राग्दिशीये प्रत्यये परे एतच्छब्दस्य अन्स्यादित्यर्थः प्रतीयते, एवं सति एतच्छब्दस्य अनेव स्यात्, नत्वेतेतौ। तत्राह--योगविभाग इति। एतद इति। प्रथमसूत्रमिदम्। तस्य शेषपूरणम् "एतेतौ रथोः" इति। एतच्छब्दस्य एतेतौ स्तो रेफथकारादौ प्रत्यये परे इत्यर्थः। एतर्हि, इत्थमित्युदाहरणम्। अन्निति। द्वितीयं सूत्रम्।एतद इत्येवेति रथोरिति तु नानुवर्तते इति भावः। तथाच "एतद" इत्यस्य अन्स्यात्प्राग्दिशीये परे इत्यर्थः फलति। अतः, अत्र इत्युदाहरणम्। ननु अनादेशे नकारस्य इत्संज्ञायामकारोऽन्तादेशः स्यादित्यत आह--अनेकाल्त्वादिति। नकारस्य प्रयोजनाऽभावान्नेत्संज्ञा, नित्स्वरस्य प्रत्ययविषयत्वादिति भावः। तर्हि "अत" इत्यादौ नकारस्य श्रवणं स्यादित्यत आह--नलोप इति।

तत्त्व-बोधिनी
एतदोऽन् १४७२, ५।३।५

एतदोऽन्। भाष्यारूढोऽयं पाठः। वृत्तिकारस्तु "एतदो"ऽशिति पठित्वा शकारः सर्वादेशार्थ इत्याह। अनिति। प्राग्दिशीये परे अन्स्यात्। अनेकाल्वादिति। नित्करणस्य प्रयोजनं नास्ति, प्रत्ययनित्त्वस्यैव स्वरार्थत्वादिति भावः।