पूर्वम्: ५।३।४९
अनन्तरम्: ५।३।५१
 
सूत्रम्
षष्ठाष्टमाभ्यां ञ च॥ ५।३।५०
काशिका-वृत्तिः
षष्ठाष्टमाभ्यां ञ च ५।३।५०

भागे इत्येव, अच्छन्दसि इति च। षष्ठाष्टमभ्यां भागे अभिधेये अच्छन्दसि विषये ञः प्रत्ययो भवति। चकारादन् च। षष्ठो भागः षष्टः, षष्ठः। आष्टमः, अष्टमः।
न्यासः
षष्ठाष्टमाभ्यां ञ च। , ५।३।५०

यथासंख्ये हि षष्ठादन्यथा प्राप्तं चेत्यन्()। न च पूर्वेणैव सिद्ध इति षष्ठग्रहमनर्थकं स्यात्()। तस्मादुभयाभ्यामुभयं भवति॥
बाल-मनोरमा
षष्ठाष्टमाभ्यां ञ च , ५।३।५०

षष्ठाष्टमाभ्यां ञ च। "पूर्वसूत्रविषये" इति शेषः। "ञे"ति लुप्तप्रथमाकम्। ञे आदिवृद्दिः। चादनिति। इह न यथासह्ख्यं, व्याख्यानात्।