पूर्वम्: ५।३।५६
अनन्तरम्: ५।३।५८
 
सूत्रम्
द्विवचनविभज्योपपदे तरबीयसुनौ॥ ५।३।५७
काशिका-वृत्तिः
द्विवचनविभज्यौपपदे तरबीयसुनौ ५।३।५७

द्वयोरर्थयोर् वचनं द्विवचनम् विभक्तव्यो विभज्यः। निपातनाद् यत् भवति। द्व्यर्थे विभज्ये च उपपदे प्रातिपदिकात् तिङन्ताच् च अतिशायने तरबीयसुनौ प्रत्ययौ भवतः। तमबिष्ठनोरपवादौ। यथासङ्ख्यम् अत्र न इष्यते। द्वाविमावाढ्यौ, अयम् अनयोरतिशयेन आढ्यः आढ्यतरः। सुकुमारतरः। पचतितराम्। जल्पतितराम्। ईयसुन् खल्वपि द्वाविमौ पटू, अयम् अनयोरतिशयेन पटुः पटीयान्। विभज्ये च उपपदे माथुराः पाटलिपुत्रकेभ्य आढ्यतराः। दर्शनीयतराः। पटीयांसः। लघीयांसः।
लघु-सिद्धान्त-कौमुदी
द्विवचनविभज्योपपदे तरबीयसुनौ १२२५, ५।३।५७

द्वयोरेकस्यातिशये विभक्तव्ये चोपपदे सुप्तिङन्तादेतौ स्तः। पूर्वयोरपवादः। अयमनयोरतिशयेन लघुः लघुतरो लघीयान्। उदीच्याः प्राच्येभ्यः पटुतराः पटीयांसः॥
न्यासः
द्विवचनविभज्योपपदे तरबीयसुनौ। , ५।३।५७

"द्वयोरर्थयोर्वचनं द्विवचनम्()" इति। एतेनान्वर्थस्य द्विवचनस्य ग्रहणम्(), न पारिभाषिकस्येति दर्शयति यदि हि पारिभाषिकं द्विवचनं, गृह्रेत, "अस्माकं च देवदत्तस्य देवदत्तोऽभिरूपतरः इत्यत्र प्रत्ययो न स्यात्(); पारिभाषिकतस्य द्विवचनस्याभावात्()। अन्वर्थस्य तु ग्रहणे सति भवति द्व्यर्थतोपपदस्य। तथा हि--अस्माकमित्यनेनैकोऽर्थ उच्यते, एकस्मिन्नेवार्थे "अस्मदो द्वयोश्च" १।२।५९ इति बहुवचनस्य विधीनात्()। देवदत्तस्येत्यनेनापि द्वितीयोऽर्थ उच्यत इति भवत्येव तदन्वर्थद्विवचनमुपपदम्()। तदेवमन्वर्थस्य ग्रहणे सर्वत्र सिध्यतीति तस्येदं ग्रहणं युक्तमिति मन्यते। "विभक्तव्यः" इति। पृथक्? कत्र्तव्य इत्यर्थः। यः पुनरतिशय्यमानस्तस्योपपदत्वम्(), नातिशयितुः; ततः प्रत्यविधानात्()। ननु च "ऋहलोण्र्यत्()" ३।१।१२४ इति ण्यति कृते विभाग्य इति भवितव्यम्(), कथं विभज्य इति निर्देश उपपद्यते? इत्याह--"निपातनाद्यद्भवति" इति। इह द्वे उपपदे, एवं प्रकृती च प्रत्ययावपि द्वावेव, ततश्च यथासंख्येन भवितव्यमिति कस्यचिद्भान्तिः स्यात्(), अतस्तन्निरासार्थमाह--"यथासंख्याम्()"चारचिह्नात्()। स हि लक्षणान्तरनिरपेक्षतां दर्शयन्? यथासंख्यलक्षणमपीह नापेक्षेतेति सूचयति। "पटीयान्? इति। पूर्ववट्टिलोपः, "अत्वसन्तस्य चाधातोः" ६।४।१४ इति दीर्घः, हल्ङ्यादिसंयोगान्तलोपौ। (६।१।६८; ८।२।२३)। "माथुराः पाटलिपुत्रकेभ्य आढ()तराः" इति "पञ्चमी विभक्ते" २।३।४२ इत्यनेन पञ्चमी। पाटलिंपुत्रकेभ्य इत्येदत्र विभज्योपपदम्(), पाटलिपुत्रका हि माथुरेभ्यो विभज्यन्ते=पृथक्? क्रियन्ते। ननू चैतदपि "द्विवचनोपपदे" इत्येव सिद्धम्(), अस्ति ह्रत्र द्विवचनमुपपदम्(), तथा हि--माथुराणामेको राशिः, अपरः पाटलिपुत्रकाणाम्(), तौ च द्विवचनेनोच्येते, तस्माद्विभज्यग्रहणमनर्थकम्()? नैतदस्ति; यद्यप्यत्र राश्यपेक्षा द्व्यर्थताऽस्ति, तथापि नासौ शब्देनोपादीयते। किं तर्हि? अवयवभेदः। अत एव माथुराः पाटलिपुत्रकेभ्य इति बहुवचनम्()। इह राश्यपेक्षापि द्व्यर्थता नास्तीति--साङ्काश्यकेभ्यः पाटलिपुत्रकेभ्यश्च माथुराः सुकुमारतरा इति। तस्माद्विभज्यग्रहणमपि कत्र्तव्यम्()॥
बाल-मनोरमा
द्विवचनविभज्योपपदे तरबीयसुनौ , ५।३।५७

द्विवचन। उच्यतेऽनेनेति वचनम्। द्वयोरर्थयोर्वचनं द्विवचनम्। द्व्यर्थप्रतिपादकमिति यावत्। न द्विवचनसंज्ञकमिह गृह्रते, व्याख्यानात् विभक्तव्यं--विभज्यम्। "ऋहलो"रिति ण्यतं बाधित्वा निपातनाद्यत्। द्विवचनं च विभज्यं चेति समाहारद्वन्द्वः। द्विवचनविभज्यं च तदुपपदं चेति कर्मधारयः। द्व्यर्थप्रतिपादके विभक्तव्यविषयके च उपपदे सतीति फलितम्। प्रातिपदिकादिति, तिङ इति चानुवर्तते। सुबन्तात्तद्धितोत्पत्तिरिति सिद्धान्तात्सुबन्तत्वं प्रातिपदिकविशेषणं लभ्यते। फलितमाह--द्वयोरेकस्येत्यादिना। द्वयोर्मध्ये अन्यतरापेक्षया अतिशयविशिष्टस्वार्थवृत्तेः, विभागप्रयोजकीभूतधर्मवाचकाच्च शब्दात्स्वार्थे तरबीयसुनौ स्त इति यावत्। यद्यप्यत्र द्वे सुबन्ततिङन्ते प्रकृती, द्वौ च प्रत्ययौ, तथापि न यथासङ्ख्यम्, व्याख्यानात्, अथ द्विवचनोपपदे उदाहरति--अयमनयोरिति। अत्र उपोच्चारितं पदम् उपपदम्, नतु कृत्रमं, तद्धितविधौ तदसंभवात्, धात्वधिकार एव तत्प्रवृत्तेरुक्तत्वात्। तच्चोपपदं विग्रहवाक्येऽवश्यं प्रयुज्यते। तद्धितवृत्तौ तु गतार्थत्वान्नवस्यकम्। लघीयानिति। ईयसुनि नकार इत्, उकार उच्चारणार्थः, उगित्त्वान्नुम्, "सान्ते"ति दीर्घः, हल्ङ्यादिसंयोगान्तलोपौ।

अथ विभज्योपपदे उदाहरति--उदीच्याः प्राच्येभ्य इति। "पञ्चमी विभक्ते" इति पञ्चमी। द्विवचनसंज्ञकग्रहणे तु "दन्ताः स्निग्धतराः" इति न सिध्येत्। "बहुषु पुत्रेषु एतदुपपन्नं भवति अयं मे ज्येष्ठोऽयं मे मध्यमः, अयं मे कनीया"निति आद्यन्तवत्सूत्रस्थबाष्यप्रयोगात्, "नैर्देशिकानां वार्ततरका" इति "तस्मिन्" इति सूत्रभाष्यप्रयोगाच्च अद्वयर्थोपपदेऽपि तरबीयसुनावित्याहुः।

तत्त्व-बोधिनी
द्विवचनविभज्योपपदेतरबीयसुनौ १५०१, ५।३।५७

द्विवचनविभज्योपपदे। द्वयोरर्थयोर्वचनं---द्विवचनम्। करणे ल्युट्। कर्मणि षष्ठ()आ समासः। येन पदेन द्वावर्थावुच्येते तद्द्विवचनम्। विभक्तव्यं=विभज्यम्। "ऋहलो"दिति ण्यति प्राप्ते तदपवादो यत् निपात्यते। ण्यति तु "चजो"रिति कुत्वेन विभाग्यमिति स्यात्। विभाज्यशब्दस्य स्मृतिषु प्रयुक्तस्य साधुत्वं चिन्त्यमिति हरदत्तोक्तिश्चिन्त्या। ण्यन्तात् "अयो य"दिति यति विभाज्यमिति रूपसिद्धेः। न चात्राऽर्थबेदः शङ्क्यः, "नुवृत्तप्रेषणाद्धातोः प्राकृतेऽर्थे णिच"इति "णेरणौ"इति सूत्रे व्युत्पादनादिति दिक्। द्विवचनं च विभज्यं चेति द्वन्द्वः। तस्य उपपदेन कर्मधारयः। तथा च व्द्यर्थवाचके विभजनीये चोपपदे सतीत्यक्षरार्थः। "द्विवचनान्ते उपपदे"इति व्याख्यायां तु "दन्तोष्ठस्य दन्ताः स्निग्धतराः "इत्यादि न सिध्यति। नच "द्वयोर्वचनं द्विवचन"मिति पक्षेऽपि नेदं सिध्यति, समाहारस्यैकत्वात्, गुणभूतवर्तिपदार्थश्रयमे तु द्वातिं()रशद्दन्ताः तु द्वातिं()रशद्दन्ताः , द्वावोष्ठाविति तेषां बहुत्वात्सुतरां न सिध्येदिति चेत्। अत्राहुः----वृत्ताभेदैकत्वसङ्ख्यामुपपाददति वर्तिपदानि। ततश्च ऊभेदस्य परित्यागादभेदैकत्वं , सङ्ख्यायाश्चोपादानाद्दन्तोष्ठलक्षणार्थद्वयं दन्तोष्ठशब्देनोच्यत इति नास्ति द्वयोर्वचनं द्विवचनमित्येतदर्थकद्विवचनोपपदे इति पक्षे दोष इति। विस्तरस्त्तवाकरग्रन्तेब्योऽवगन्तव्यः। अन्वर्थं चोपपदम्,-----उपोच्चारितं पदमिति, न तु कृत्रिमम्। तद्धितविधौ तस्याऽसंभवात्। तच्च विग्रहवाक्य एव प्रयुज्यते। वृत्तौ तु गतार्थत्वान्नावश्यकम्। एवं स्थिते उपपदग्रहणं स्पष्टार्थम्। इह द्वे उपपदे, द्वे च प्रकृती सुबन्ततिङन्तरूपे, द्वौ च प्रत्ययौ, तथापि यथासङ्ख्यं नेष्यते। द्विवचनोपपदमुदाहरति----अनयोरिति। लघीयामिति। "टे"रिति लोपः। उगित्त्वान्नुम्। "सान्तमहतः"इति दीर्घः। हल्ड()आदिसंयोगान्तलोपौ। विभज्योपपदमुदाहरति---प्राच्येभ्य इति। "पञ्चमी विभक्ते"इति पञ्चमी। कथं तर्हि "परुद्भवान् पटुरासीत्, ऐषमस्तु पटुतरः"इति?। अत्राहुः----एकस्यापि धर्मिणस्तत्कालस्थत्वादिरूपधर्मभेदेन भेदाध्यारोपात्प्रतियोग्यपेक्षस्तत्कालस्थप्रकर्षःष तदाश्रयश्चेह तपप्प्रत्यय इति। व्यपदिशन्ति च----"अन्य एवासि संवृत्तः", "कच्चित्स एवासि धनञ्जयस्त्वम्िति।