पूर्वम्: ५।३।५८
अनन्तरम्: ५।३।६०
 
सूत्रम्
तुश्छन्दसि॥ ५।३।५९
काशिका-वृत्तिः
तुश् छन्दसि ५।३।५९

तुः इति तृन्तृचोः सामान्येन ग्रहणम्। त्रन्ताच् छन्दसि विषये अजदी प्रत्ययौ भवतः। पूर्वेण गुणवचनादेव नियमे कृते छन्दसि प्रकृत्यन्तराण्यभ्यनुज्ञायन्ते, त्रन्तादप्यजादी भवत इति। आसुतिं करिष्ठः। दोहीयसी धेनुः। भस्याढे तद्धिते इति पुंवद्भावे कृते तुरिष्ठेमेयःसु इति तृचो निवृत्तिः।
न्यासः
तुच्छन्दसि। , ५।३।५९

"करिप्ठः" इति। कर्त्तृशब्दात्? तृन्नन्तादिष्ठन्(), "तुरिष्ठेमेयस्सु" ६।४।१५४ इति तृशब्दलोपः। "दोहीयसी" इति। दोग्ध्रीशब्दात्? तृन्नन्तादीयसुन्(), तृशब्दस्य लोपे कृते निमित्ताभावाद्घत्वादिनिवत्र्तते, "उगितश्च" ४।१।६ इति ङीप्()॥
बाल-मनोरमा
तुश्छन्दसि , ५।३।५९

तुश्छन्दसि। "तृ" इत्यस्य "तु"रिति पञ्चम्येकवचनम्। "तृ" इत्यनेन तृन्तृचोः सामान्येन ग्रहणम्। प्रत्ययत्वात्तदन्तग्रहणम्। अजादी इत्यनुवर्तते। तदाह--तृन्तृजन्तादिति। अगुणवचनादपि तृप्रत्ययान्तात्प्राप्त्यर्थमारम्भः। एवंच पूर्वेण नियमेव व्यावर्तितयोः प्रतिप्रसवोऽयं नत्वपूर्वो विधिरिति सूचयितुं छान्दसमप्यत्रोपन्यस्तम्।

तत्त्व-बोधिनी
तुश्छन्दसि १५०३, ५।३।५९

तुश्छन्दसि। पूर्वेण नियमेव व्यावर्तितयो प्रतिप्रसवोऽयम्, नत्वपूर्वो विधिः। तेन उपाधिसङ्करो न।