पूर्वम्: ५।३।६८
अनन्तरम्: ५।३।७०
 
सूत्रम्
प्रकारवचने जातीयर्॥ ५।३।६९
काशिका-वृत्तिः
प्रकारवचने जातीयर् ५।३।६९

सामान्यस्य भेदको विशेषः प्रकारः, तस्य वचने। प्रकृत्यर्थेविशेषणम् च एतत्। सुबन्तात् प्रकारविशिष्टे ऽर्थे वर्तमानात् प्रातिपदिकात् स्वार्थे जातीयर् प्रत्ययो भवति। प्रकारवति च अयं प्रत्ययः। थाल् पुनः प्रकारमात्र एव भवति। पटुप्रकारः पटुजातीयः। मृदुजातीयः। दर्शनीयजतीयः।
न्यासः
प्रकारवचने जातीयर्?। , ५।३।६९

"तस्य वचने" इति। उक्तौ, द्योतन इत्यर्थः। "प्रकारवति चायम्()" इत्यादिना थाल्जातीयरोर्विषयभेदं दर्शयति। विषयभेदे सति विशेषविहितेनापि ताला जातीयरो बाधनं न भवति। थाल्प्रत्यान्तात्? जातीयर्? सिद्धो भवति--कथञ्जातीय इति॥
बाल-मनोरमा
प्रकारवचनेजातीयर् , ५।३।६९

प्रकारवचने। "प्रकारवचने था"लित्यतोऽस्य वैलक्षण्यमाह--प्रकारवति चायमिति। प्रकारवत्येवेत्यर्थः। थाल्लु प्रकारमात्रे इति। वस्तुतस्तु उभयमपि प्रकारवतीति न्याय्यम्, अविशेषात्। अन्यथा "तथे"त्यत्र स प्रकारः इत्येवार्थः स्यात्। नच किमादिभ्यो विशिष्य विहितेन थाला जातीयरो बाधात्तज्जातीय इत्याद्यसिद्धिरिति वाच्यं, "जात्यन्ताच्छ बन्धुनी"ति तज्जात्यादिशब्दाच्छप्रत्ययेनैव तज्जातीयादसिद्धेः। अत एव "यथाजातीयक" इत्यादिभाष्यप्रयोगाः सङ्गच्छन्ते। जयादित्यस्तु-अत्र प्रकारो भेदःस थाल्विधौ सामान्यस्य भेदको विशेषः प्रकार इत्याह--वामनस्तु-सादृश्यं भेदश्चेत्युभयमपि प्रकार इत्याह।