पूर्वम्: ५।३।७२
अनन्तरम्: ५।३।७४
 
सूत्रम्
अज्ञाते॥ ५।३।७३
काशिका-वृत्तिः
अज्ञाते ५।३।७३

अज्ञातविशेषः अज्ञातः। अज्ञातत्वोपाधिके ऽर्थे वर्तमानात् प्रातिपदिकात् तिङन्ताच् च स्वार्थे यथाविहितं प्रत्ययो भवति। स्वेन रूपेण ज्ञाते पदार्थे विशेषरूपेण अज्ञाते प्रत्ययविधानम् एतत्। कस्य अयम् अश्वः इति स्वस्वामिसम्बन्धेन अज्ञाते अश्वे प्रत्ययः, अश्वकः। गर्दभकः। उष्ट्रकः। एवम् अन्यत्र अपि यथायोगम् अज्ञातता विज्ञेया। उच्चकैः। नीचकैः। सर्वके। विश्वके। पचतकि। जल्पतकि।
लघु-सिद्धान्त-कौमुदी
अज्ञाते १२३७, ५।३।७३

कस्यायमश्वोऽश्वकः। उच्चकैः। नीचकैः। सर्वके। (ओकारसकारभकारादौ सुपि सर्वनाम्नष्टेः प्रागकच्, अन्यत्र सुबन्तस्य)। युष्मकाभिः। युवकयोः। त्वयका॥
न्यासः
अज्ञाते। , ५।३।७३

"अज्ञातविशेषोऽज्ञातः" इति। यदि यस्यात्यन्तमज्ञानं सोऽज्ञातः स्यात्(), एवं सति सर्वथा वस्तुविज्ञाना भावे प्रकृतिरेव न स्यात्(), न हि सर्वथाऽविज्ञातोऽर्थः प्रयोगमर्हति; तस्मात्? स्वेन रूपेण ज्ञातस्य यस्य धर्मान्तरत्वमज्ञातं स इहाज्ञातोऽभिमत इति ज्ञायते--अविज्ञातविशेषोऽज्ञात इति। अस्यैवार्थं विस्पष्टीकर्त्तुमाह--"स्वेन" इत्यादि। स्वरूपम()आत्वादि, विशेषरूपं स्वस्वामिसम्बन्धादि॥
बाल-मनोरमा
अज्ञाते , ५।३।७३

अज्ञाते। अज्ञातेऽर्थे विद्यमानात्सुबन्तात्स्वार्थे कप्रत्ययः स्यात्। अव्ययसर्वनाम्ना तिङन्तानां च टेः प्रागकच्स्यात्। तत्रापि ककारान्ताव्ययानां दकारोऽन्तादेशः स्यादित्यर्थः। कस्यायमिति। स्यादित्यर्थः। अज्ञातत्वाभिनयोऽयम्। अज्ञातोऽ()आ इति विग्रहः। उच्चकैरिति। उच्चैरित्यव्ययस्य टेः प्रागकच्। सर्वके वि()आके इति। ननु अव्ययसर्वनाम्नामिति सूत्रे "सुप" इत्यनुवृत्तेः सुबन्तानां सर्वनाम्नां टेः प्रागकजिति फलितम्। तथा सति युवयोः आवयोः, युष्मासु अस्मासु, युष्माभिः अस्माभिरित्यत्र सुबन्तानां टेः प्रागकजिति फलितम्। तथा सति युवयोः आवयोः, युष्मासु अस्मासु, युष्माभिः अस्माभिरित्यत्र सुबन्तानां टेः प्रागकचि युवकयोः, आवकयोः, युष्मकासु अस्मकासु, युष्मकाभिः अस्मकाभिरिति न स्युः। युवयकोः आवयकोः, युष्मासकु अस्मासकु, युष्माभकिः अस्माभकिरिति स्युः। यदि तु "सुप" इत्यननुवर्त्त्य प्रातिपदकादित्येवानुवर्त्त्यं प्रातिपदिकादेव सर्वनाम्नां टेः प्रागकजित्यर्थः स्यात् तर्हिं त्वयका मयकेति न स्यात्।

त्वकया, मकया इति स्यादित्यत आह--ओकारेति। वार्तिकमिदम्। ओकारादौ सकारादौ भकारादौ च सुपि सर्वनाम्नष्टेः प्रागकच्, अन्यत्र तु सुबन्तस्यैव सर्वनाम्नष्टेः प्रागकजित्यर्थः। इदं तु वार्तिकं युष्मदस्मन्मात्रविषयकमेव, भाष्ये तथैवौदाह्मतत्वात्। अन्येषां तु सर्वनाम्नां प्रातिपदिकस्यैव टेः प्रागकच्, नतु सुबन्तानाम्। तेन सर्वकेणेत्यादि सिद्धम्। अत एव "विभक्तौ परतो विहितः किमः क आदेशः साकच्कार्थः, कः कौ के इति भाष्यं सङ्गच्छते। त्वयका मयकेति। इह त्वया मयेति सुबन्तयोष्टेः प्रागकच्। प्रातिपदिकस्य टेः प्रागकचि तु त्वकया मकयेति स्यादिति भावः। काम् वक्तव्य इति। "काम्प्रत्यय" इति वृत्तिस्तु चिन्त्या, भाष्ये प्रत्ययशब्दस्याऽदर्शनात्। किं तु मित्त्वादागम एवायम्। तदाह--मित्त्वादिति। अकचोऽपवादः। तूष्णीकामिति। तूष्णीमित्यव्ययस्य ईकारादुपरि का इत्याकारान्त आगमः।

शीले इति। इदमपि वार्तिकम्। "तूष्णी"मित्यव्ययात्कप्रत्ययः स्यान्मकारस्य लोपश्च शीले गम्ये इत्यर्थः। शीलं=स्वभावः। तूष्णीक इति। मौनस्वभाव इत्यर्थः। भाष्ये दीर्घस्यैव प्रयोगदर्शनात् "केऽणः" इति ह्यस्वो न भवति। "अव्ययसर्वनाम्ना"मित्यत्र तिङश्चेत्यनुवृत्तेः प्रयोजनमाह--पचतकीति। "पचती"त्यत्र इकारात्प्रागकच्। ककारदकार उच्चारणार्थः। अन्यथा इकारात्प्रागकच्प्रत्यये आद्गुणे "पचतके" इति स्यादिति भावः। जल्पतकीति। "जल्पती"त्यस्य टेः प्रागकच्। धकिदिति। "धि"गित्यव्ययस्य टेः प्रागकच्, कान्तस्याव्ययस्य दकारश्चान्तादेश इति बोध्यम्। "तिङश्चे"त्यप्यनुवर्तते। अ()आक इति। धावनस्य असम्यक्त्वाद()आस्य कुत्सा बोध्या। सर्वनामाव्ययतिङन्तानि पूर्ववदुदाहार्याणि। "याप्येपाश"विति प्रवृत्तिनिमित्तकुत्सायामेव भवति, इदं तु सूत्रमप्रवृत्तिनिमित्तकुत्सायामपीति भाष्ये स्पष्टम्।