पूर्वम्: ५।३।७४
अनन्तरम्: ५।३।७६
 
सूत्रम्
संज्ञायां कन्॥ ५।३।७५
काशिका-वृत्तिः
संज्ञायां कन् ५।३।७५

कुत्सिते इत्येव। कुत्सितत्वोपाधिके ऽर्थे वर्तमानात् प्रातिपैद्कात् कन्प्रत्ययो भवति, कस्य अपवादः, प्रत्ययान्तेन चेत् संज्ञा गम्यते। शूद्रकः। धारकः। पूर्णकः।
न्यासः
संज्ञायां कन्?। , ५।३।७५

बाल-मनोरमा
संज्ञायां कन् , ५।३।७५

संज्ञायां कन्। कुत्सिते इत्यनुवर्तते। तदाह--कुत्सित इति। तदन्तेन चेदिति। कुत्साहेतुकसंज्ञाविषये कनिति यावत्।