पूर्वम्: ५।३।७५
अनन्तरम्: ५।३।७७
 
सूत्रम्
अनुकम्पायाम्॥ ५।३।७६
काशिका-वृत्तिः
अनुअम्पायाम् ५।३।७६

कारुण्येन अभ्युपपत्तिः परस्य अनुकम्पा। तस्या गम्यमानायां सुबन्तात् तिङन्ताच् च यथाविहितं प्रत्ययो भवति। पुत्रकः। वत्सकः। दुर्बलकः। बुभुक्षितकः। स्वपितकि। श्वसितकि।
न्यासः
अनुकम्पायाम्?। , ५।३।७६

"कारुण्णेन" इत्यादि। अभ्युपपत्तिरनुग्रह एव। "स्वपितकि, ()आसितकि" इति। "रुदादिभ्यः सार्वधातुके" ७।२।७६ इट्(), अदादित्वाच्छपो लुक्()॥
बाल-मनोरमा
अनुकम्पायाम् , ५।३।७६

अनुकम्पायाम्। अनुकम्पायुक्तार्थाभिधायिनः स्वार्थे कः स्यादित्यर्थः। अनुकम्पा=दया।

तत्त्व-बोधिनी
अनुकम्पायाम्। १५१६, ५।३।७६

अनुकम्पायाम्। "कृपा दयाऽनुकम्पा स्या"दित्यमरः।