पूर्वम्: ५।३।७७
अनन्तरम्: ५।३।७९
 
सूत्रम्
बह्वचो मनुष्यनाम्नष्ठज्वा॥ ५।३।७८
काशिका-वृत्तिः
बह्वचो मनुस्यनाम्नष् ठज् वा ५।३।७८

अनुकम्पायाम् ५।३।७६, नीतौ च तद्युक्तात् ५।३।७७ इति वर्तते। बह्वचः प्रातिपदिकात् मनुष्यनामधेयाद् वा ठच् प्रत्ययो भवति, अनुकम्पायां गम्यमानायां नीतौ च। देविकः, देवदत्तकः। यज्ञिकः, यज्ञदत्तकः। बह्वचः इति किम्? दत्तकः। गुप्तकः। मनुष्यनाम्नः इति किम्? मद्रबाहुकः। भद्रबाहुकः।
न्यासः
बह्वचो मनुष्यनाम्नष्ठज्वा। , ५।३।७८

"देविकः" इति। "यज्ञिकः" इति। "ठाजावूध्र्वं द्वितीयादचः" ५।३।८३ इति दत्तशब्दस्य लोपे कृते "यस्येति च" ६।४।१४८ इत्यकारलोपः। प्रत्युदाहरणे सर्वत्र क एव वेदितव्यः। "मद्रबाहुकः" इति। मद्रौ बाहू यस्य स मद्रबाहुः। नेदं मनुष्यनाम, किं तर्हि? विशेषणम्()। मनुष्यग्रहणं किमर्थम्()? देवहस्तको हस्तीत्यत्र मा भूत्()। नाम ग्रहणं किमर्थम्()? मृगकः, मत्स्यक इत्यत्र मा भूत्()॥
बाल-मनोरमा
बह्वचो मनुष्यनाम्नष्ठज्वा , ५।३।७८

बह्वचो मनुष्य। "ठ"जिति च्छेदः पूर्वसूत्रद्वयविषये इति शेषपूरणम्। "अनुकम्पाया"मिति "नीतौ च तद्युक्ता"दिति च सूत्रद्वयविषये बह्वचो मनुष्यनाम्नः प्रातिपदिकाट्ठज्वा स्यादित्यर्थः। पक्षे कः।