पूर्वम्: ५।३।११९
अनन्तरम्: ५।४।२
 
सूत्रम्
पादशतस्य संख्याऽ‌ऽदेर्वीप्सायां वुन् लोपश्च॥ ५।४।१
काशिका-वृत्तिः
पादशतस्य सङ्ख्यादेर् वीप्सायां वुन् लोपश् च ५।४।१

पादशतान्तस्य सङ्ख्यादेः प्रातिपदिकस्य वीप्सायां द्योत्यायां वुन् प्रत्ययो भवति। तत्सन्नियोगेन चान्तस्य लोपो भवति। यस्य इति लोपेन एव सिद्धे पुनर् वचनम् अनैमित्तिकार्थम्। यस्य इति लोपः परनिमित्तकः। तस्य स्थानिवद्भावात् पादः पत् ६।४।१३० इति पद्भावो न स्यात्। अस्य त्वनैमित्तिकत्वान् न स्थानिवत्त्वम्। द्वौ द्वौ पादौ ददाति द्विपदिकां ददाति। द्वे द्वे शते ददाति द्विशतिकां ददाति। तद्धितार्थ इति समासः। ततः प्रत्ययः। स्वभावाच् च वुन्प्रत्ययान्तं स्त्रियाम् एव वर्तते। पादशतस्य इति किम्? द्वौ द्वौ माषौ ददाति। सङ्ख्यादेः इति किम्? पादं पादं ददाति। वीप्सायाम् इति किम्? द्वौ पादौ ददाति। द्वे शते ददाति। पादशतग्रहणम् अनर्थकम्। अन्यत्र अपि दर्शनात्। द्विमोदकिकां ददाति त्रिमोदकिकां ददाति।
न्यासः
पादशतस्य संख्यादेर्वीप्सायां वुन्लोपश्च। , ५।४।१

प्रतिपदिकादिति वत्र्तते, तस्य विशेषणं पादशतस्यग्रहणम्(), विशेषणेन तदन्तविधिर्भवतदीत्याह--"पादशतान्तस्य" इति। आदिशब्दोऽवयववचनः। न च संख्याशब्दः पदशतशब्दयोरवयव उपपद्यते; पृथाग्भावादनारंभकत्वात्()। न हि पृथग्भूतमनारम्भकं शब्दान्तरस्यावयवो युज्यते, यथा घटशब्दः पटशब्दस्य। विपरिते तु युज्यते, यथा--पटस्य समुदायात्मनः तन्त्वादिकारणं समदेशमवयदमाहः। तस्मात्? "संख्यादेः" इत्येतदपि प्रातिपदिकस्य विज्ञायते, न पादशतशब्दयोरित्याह--"संख्यादेः" इत्यादि। आनन्तय्र्यलक्षणा चेयं षष्ठो, यथा--गापोष्टकं ३।२।८ इति गापोष्टक्प्रत्ययो भवतीत्यनन्तरमिति शेषः। "तत्सन्नियोगेन च" इति। चकारस्य सन्नियोगार्थत्वात्()। "अन्तस्य" इति। अलोऽन्त्यपरिभाषया १।१।५१। "पुनः" इत्यादि। निमित्ते भवो नैमित्तिकः, अध्यात्मादित्वाट्ठञ् (वा। ४५६), न नैमित्तिकोऽनैमित्तिकः। लोपः स्यावित्येवमर्थं पुनर्लोपवचनम्()। वुनापि सह लोपो विधीयमानः परनिमित्तं नापेक्षत इत्यनैमित्तिको भवति। यस्येति ६।४।१४८ लोपः। "परनिमित्तकः" इति। ईति तद्धिते च परस्मिन्निमित्ते विधानात्? तस्य स्थानिवद्भावात्(), "अचः परस्मिन्? पूर्वविधौ" १।१।५६ इति लोपस्य स्थानिवद्भावेन पाच्छब्दरूपस्य विहितत्वात्()। अनच्को हि पाच्छब्दः स्थान्युपात्तः, तस्य चानच्कत्वं स्थानिवद्भावे सति हीयते। अस्य त्वनैमित्तिकत्वान्न स्थानिवद्भाव इति पद्भावो भवतीति भावः। "द्वौ द्वौ पादौ" इति। पीप्सायां द्विर्वचनं भवति॥
बाल-मनोरमा
पादशतस्य सङ्ख्यादेर्वीप्सायां वुन् लोपश्च , ५।४।१

अथ पञ्चमस्य चतुर्थपादः-पादशतस्य। पादश्चशतं चेति समाहारद्वन्द्वाल्लोपापेक्षया षष्ठी। वुन्प्रत्ययापेक्षया तु सा पञ्चम्यर्थे। सङ्ख्यावचकशब्दपूर्वकात्पादशब्दाच्च वीप्साविशिष्टार्थवृत्तेः स्वार्ते वुन्प्रत्ययः स्यात्, प्रकृतेरन्त्यस्य लोपश्चेत्यर्थः। ननु वुनोऽकादेशे सति "यस्येति चे"त्येव लोपसिद्धेरिह लोपविधिव्र्यर्थ इत्यत आह--अनैमित्तिकत्वार्थमिति। "यस्येति चे"ति लोपस्य परनिमित्तकतया तस्य "अचः परस्मिन्" इति स्थानिवत्त्वा "पादः प"दिति पदादेशो न स्यात्। अस्य तु लोपस्य परनिमित्तकत्वाऽभावेन स्थानिवत्त्वाऽप्रसक्तेः पद्भावो निर्बाध इति भावः। तद्धितार्थ इति। नच वीप्सायाः प्रकृत्यर्थविशेषणतया वुनोऽर्थाऽभावात्कथमिह"तद्धितार्थ" इति समास इति वाच्यं, वुनो द्योतकतया द्योत्यार्थेनैवार्थवत्त्वात्। वुन्नयं स्त्रियामेवेति। स्वभावादिति भावः। द्विशति कामिति। द्वे द्वे शते ददातीति विग्रहः।

पादशतेत्यादि। वार्तिकमिदम्। अनर्थकमिति कथं, पादशतभिन्नव्यावृत्त्यर्थत्वादित्यत आह--अन्यत्रापि दर्शनादिति। तदुदाह्मत्य दर्शयति--द्विमोदकिकामिति। द्वौ द्वौ मोदकौ ददातीति विग्रहः।

तत्त्व-बोधिनी
पादशतस्य सङ्ख्यादेर्वीप्सायां वुन् लोपश्च १५४२, ५।४।१

पादशतस्य सङ्ख्यादेः। पादशतस्य किम्()। द्वौ द्वौ माषौ ददाति। संख्यादेरिति किम्()। पादं पादं ददाति। वीप्सीयामिति किम्()। द्वौ पादौ ददाति। अनैमित्तिकत्वार्थमिति। निमितिते भवो नैमित्तिकः। अध्यात्मादित्वाट्ठञ्। तद्धितार्थ इति। समास इति। यद्यपि प्रकृत्युपाधिवीप्सा, तथापि वुनो द्योत्येति तद्धितार्थो भवत्येवेति भावः। ददातीति। समर्पणमात्रमिह ददातेरर्थः, न तु परस्वत्वापादनपर्यन्तम्। तथात्वे हि उत्तरसूत्रविषयत्वं स्यात्। केचित्तु व्यवसृजेर्धातोः प्रयोगे सत्येव उत्तरसूत्रस्य प्रवृत्तिमाहुः। अन्यत्रापि दर्शनादिति। "द्वौ द्वौ माषौ ददाती"त्यादौ त्वनभिधानान्नतिप्रसङ्ग इति भावः।