पूर्वम्: ५।४।९९
अनन्तरम्: ५।४।१०१
 
सूत्रम्
अर्धाच्च॥ ५।४।१००
काशिका-वृत्तिः
अर्धाच् च ५।४।१००

अर्धशब्दात् परो यो नौशब्दः तदन्तात् तत्पुरुषाट् टच् प्रत्ययो भवति। अर्धं नावः अर्धनावम्। अर्धं नपुंसकम् २।२।२ इति समासः। परवल्लिङ्गं न भवति, लोकाश्रयत्वात् लिङ्गस्य।
न्यासः
अर्धाच्च। , ५।४।१००

"अर्धनावम्()" इति। ननु च "परवल्लिङ्गं द्वन्दतत्पुरुषयोः" (२।४।२६) इति स्त्रीलिङ्गेनात्र भवितव्यमिति? अत आह--"परवल्लिह्गं न भवति" इत्यादि॥
बाल-मनोरमा
अद्र्धाच्च ७९२, ५।४।१००

अद्र्धाच्च। अद्र्धशब्दात्परो यो नौशब्दस्तदन्तात्तत्पुरुषाट्टजित्यर्थः। अर्धनावमिति। "अर्धं नपुंसक"मिति समासः, टच्, आवादेशः। अत्र परवल्लिङ्ग"मिति स्त्रीत्वामशङ्क्याह--क्लीबत्वं लोकादिति।

तत्त्व-बोधिनी
अद्र्धाच्च ६९७, ५।४।१००

अद्र्धखारीति। "परवल्लिङ्ग"मिति स्त्रीत्वम्।