पूर्वम्: ५।४।१०५
अनन्तरम्: ५।४।१०७
 
सूत्रम्
द्वंद्वाच्चुदषहान्तात् समाहारे॥ ५।४।१०६
काशिका-वृत्तिः
द्वन्द्वाच् चुदषहान्तात् समाहारे ५।४।१०६

तत्पुरुषाधिकारो निवृत्तः। द्वन्द्वात् चवर्गान्तात्, दकारान्तात्, षकारान्तात्, हकारान्तात् च टच् प्रत्ययो भवति, स चेद् द्वन्द्वः समाहारे वर्तते, न इतरेतरयोगे। वाक् च त्वक् च वाक्त्वचम्। स्रक् च त्वक् च स्रक्त्वचम्। श्रीस्रजम्। इडूर्जम्। वागूर्जम्। समिद्दृषदम्। सम्पद्विपदम्। वाग्विप्रुषम्। छत्रोपानहम्। धेनुगोदुहम्। द्वन्द्वातिति किम्? तत्पुरुषान् मा भूत्, पञ्च वाचः समाहृताः पञ्चवाक्। चुदषहान्तातिति किम्? वाक्षमित्। समाहारे इति किम्? प्रावृट्शरदौ।
लघु-सिद्धान्त-कौमुदी
द्वन्द्वाच्चुदषहान्तात्समाहारे ९९५, ५।४।१०६

चवर्गान्ताद्दषहान्ताच्च द्वन्द्वाट्टच् स्यात्समाहारे। वाक् च त्वक् च वाक्त्वचम्। त्वक्स्रजम्। शमीदृषदम्। वाक्त्विषम्। छत्रोपानहम्। समाहारे किम्? प्रावृट्शरदौ॥
लघु-सिद्धान्त-कौमुदी
इति द्वन्द्वः ५ ९९५, ५।४।१०६

लघु-सिद्धान्त-कौमुदी
अथ समासान्ताः ९९५, ५।४।१०६

न्यासः
द्वन्द्वाच्चुदषहान्तात्समाहारे। , ५।४।१०६

"वाक्? च त्वक्? च वाक्त्वचम्()" "रुआउक्? च त्वक्? च रुआउक्त्वचम्()"। "श्रीश्च रुआउक्? च श्रीरुआजम्()। "वाक्? च ऊर्क्च वागूर्जम्()। "समिच्च दृषच्च समिद्()दृषदम्()" "सम्पच्च विपच्च सम्पद्विपदम्()" "वाक्? च त्विट्? च वाक्त्विवम्()। "वाक्? च विप्रुट्? च वाग्विप्रुषम्()"। "छत्त्त्रञ्च उपानच्च छत्त्त्रोपानहम्()"। "धत्त्त्रञ्च उपानच्च छत्त्त्रोपानहम्()"। "श्रेनुश्च गोधुक्? च धेनुगोदुहम्()"। "पञ्चवाक्()" इति समाहारे द्विगुः। "वाक्समित्()" इति। धकारान्तोऽयम्()। धकारस्य "झलां जशोऽन्ते" ८।२।३९ इति जश्त्वम्()--दकारः; "वाऽवसाने" (८।४५६) इति चत्र्वम्()--तकारः॥
न्यासः
अव्ययीभावे शरत्प्रभृतिभ्यः। , ५।४।१०६

"उपशरदम्()" इति। सामीप्येऽव्ययीभावः। शरद आभिमुख्ये "प्रतिशरदम्()" "लक्षणेनाभिप्रती आभिमुख्ये"२।१।१३ इत्यव्ययीभावः। "उपविपाशम्? परतिविपाशम्()" इति। पूर्वेवत्()। अत्र ये झयन्ताः पठ()न्ते तेषां किमर्थं ग्रहणम्(), यावता "झयः" (५।४।१११) इति वक्ष्यमाणेन तदन्तात्? प्रत्ययः सिध्यति? इत्यत आह--"ये त्वत्र" इत्यादि। यद्यत्र ते न गृह्रेरंस्ततः "झयः" ५।४।१११ इति विकल्पेन टच्प्रसज्येत। तस्मान्नित्यं यथा स्यादिति--एवमर्थं झयन्तानां पृथग्ग्रणम्()। "जराया जरश्च" इति। जराशब्दाट्टज्? भवत्यव्ययीभावे, जरसादेशश्च--जरायाः समीपमुपजरसमिति। प्रतिपरसमनुभ्योऽक्ष्यणः" इति। अक्षिशब्दात्? प्रति, पर सम्(), अनु--इत्येतेभ्यः परस्माट्टज्? भवति--"प्रत्यक्षम्()। परोक्षम्()"--"परोक्षे लिट्()" ३।२।११५ इति निपातनादुत्वम्()। "समक्षम्()। अन्वक्षम्()"॥
तत्त्व-बोधिनी
द्वन्द्वाच्चुदषहान्तात्समाहारे १५८८, ५।४।१०६

द्वन्द्वात्। अन्तग्रहणं विस्पष्टार्थं। चु इति वर्गग्रहणस्य प्रयोजनं ध्वनयति---त्वक्रुआजमिति। बहूनां द्वन्द्वे तु वाक्त्वक्रुआजम्। द्वन्द्वगर्भे द्वन्द्वे तु वाक्त्वाचरुआजम्।

इति तत्त्वबोधिन्यां द्वन्द्वः।