पूर्वम्: ५।४।१०७
अनन्तरम्: ५।४।१०९
 
सूत्रम्
अनश्च॥ ५।४।१०८
काशिका-वृत्तिः
अनश् च ५।४।१०८

अन्नन्तादव्ययीभावात् टच् प्रत्ययो भवति समासान्तः। उपराजम्। प्रतिराजम्। अध्यात्मम्। प्रत्यात्मम्।
लघु-सिद्धान्त-कौमुदी
अनश्च ९२१, ५।४।१०८

अन्नन्तादव्ययीभावाट्टच् स्यात्॥
न्यासः
अनश्च। , ५।४।१०८

"उपराजम्(), प्रतिराजम्()" इति। उपशरदं प्रतिशरदमितिवदव्ययीभावः। "अव्यात्मम्()" इति। आत्मन्यधीति विभक्त्यर्थे। "प्रत्यात्मम्()" इति। पूर्ववदाभिमुख्ये॥
बाल-मनोरमा
अनश्च ६७०, ५।४।१०८

अनश्च। "अव्ययीभावे" इत्यनुवृत्तं पञ्चम्या विपरिणम्यते। "अन" इति तद्विशेषणम्। तदन्तविधिः। तदाह अन्नन्तादिति।