पूर्वम्: ५।४।११७
अनन्तरम्: ५।४।११९
 
सूत्रम्
अञ्नासिकायाः संज्ञायां नसं चास्थूलात्॥ ५।४।११८
काशिका-वृत्तिः
अञ् नासिकायाः संज्ञायां नसं च अस्थूलात् ५।४।११८

नासिकान्तात् बहुव्रीहेः अच् प्रत्ययो भवति, नासिकाशब्दश्च न समादेशम् आपद्यते। अस्थूलातिति नासिकाविशेषणं, न चेत् स्थूलशब्दात् परा नासिका भवति इति। संज्ञायाम् इति समुदायोपाधिः। द्रुरिव नासिका अस्य द्रुणसः। वाद्ग्रीणसः। पूर्वपदात् संज्ञायाम् अगः ८।४।३ इति णत्वम्। गोनसः। संज्ञायाम् इति किम्? तुङ्गनासिकः। अस्थूलातिति किम्? स्थूलनासिको वराहः। खुरखराभ्यां नस् वक्तव्यः। खुरणाः। खरणाः। पक्षे ऽच्प्रत्ययो ऽपि इष्यते। खुरणसः। खरणसः। शितिनाः, अहिनाः, अर्चनाः इति निगम इष्यते।
न्यासः
अञ्नासिकायाः संज्ञायां नसं चास्थूलात्?। , ५।४।११८

"संज्ञायामिति समुदायोपाधिः" इति। एतेन यदि प्रकृतिप्रत्ययसमुदायः कस्याचित्? संज्ञा भवत्येवं प्रत्ययो भवति, नान्यथेति दर्शयति। "द्रुणसः" इति। "पूर्वपदात्? संज्ञायामगः" ८।४।३ इति णत्वम्()। वर्ध्रे भवा स्त्री वार्ध्री, सा नासिका यस्य स "वार्ध्रीणसः" इति। "वृद्धिनिमित्तस्य च तद्वितस्यरक्तविकारे" ६।३।३८ इति पुंवद्भावप्रतिषेधः। गौरिव नासिकास्य गोनसः। अच श्चित्करणं बहुव्रीहिस्वरबाधनार्थम्()। "खरणाः खुरणाः" इति। "अत्वसन्तस्य चाधातोः" ६।४।१४ इति दीर्घः। शितर्नासिकास्य "शितिनाः"। अहिरिव नासिकास्य "अहिनाः"। अर्चेव नासिकास्य "अर्चनाः"। "ङ्यापोः संज्ञाच्छन्दसोर्बहुलम्()" ६।३।६२ इति ह्यस्वः॥
बाल-मनोरमा
अञ् नासिकायाः संज्ञायां नसं चाऽस्थूलात् ८४७, ५।४।११८

अञ्नासिकायाः। "अ"जिति च्छेदः। नासिकाया" इत्यस्य बहुव्रीहेर्विशेषणणत्वात्तदन्तविदिमभिप्रेत्याह--नासिकान्तादिति।नसमित्यनन्तरं "प्राप्नोती"त्यध्याहार्यम्। उपस्तितत्वान्नासिकाशब्द इति लभ्यते। तदाह--नासिकाशब्दश्च नसं प्राप्नोतीति।