पूर्वम्: ५।४।११८
अनन्तरम्: ५।४।१२०
 
सूत्रम्
उपसर्गाच्च॥ ५।४।११९
काशिका-वृत्तिः
उपसर्गाच् च ५।४।११९

उपसर्गात् परो यो नासिकाशब्दः तदन्तात् बहुव्रीहेः अच् प्रत्ययो भवति, नासिकाशब्दश्च न समापद्यते। असंज्ञार्थं वचनम्। उन्नता नासिका अस्य उन्नसः। प्रनसः। उपसर्गाद् बहुलम् ८।४।२७ इति णत्वम्। वेर्ग्रो वक्तव्यः। विगता नासिका अस्य विग्रः।
न्यासः
उपसर्गाच्च। , ५।४।११९

उपसर्गग्रहणं प्राद्युपलक्षणार्थम्(); नासिकां प्रति क्रियायोगाभावात्()। "वेर्ग्रो वक्तव्यः" इति। विशब्दात्? परस्य नासिकाया ग्रशब्द आदेशो भवतीति वक्तव्यम्()। विग्रः। प्रत्ययोऽजेव॥
बाल-मनोरमा
उपसर्गाच्च ८४९, ५।४।११९

उपसर्गाच्च। नन्वञ्नासिकाया इत्येव सिद्धे किमर्थमिदमित्यत आह--असंज्ञार्थमिदमिति। उपसर्गादनोत्पर इति सूत्रमिति। तत्र हि "नश्च धातुस्थो"इति सूत्रान्नसिति लुप्तषष्ठीकमनुवर्तते। "रषाभ्यां नो णः" इत्यनुवर्तते। उपसर्गस्थाद्गेफषकारात्परस्य नसो नस्य णः स्यात्, ओत्परस्तु नकारो णत्वं न प्राप्नोतीत्यर्थः। खण्डपदस्थत्वादप्राप्ताविदं सूत्रम्। "प्र ण आयूँषि तारिषत्" इत्याद्युदाहरणम्। अनोत्परः किम्?। "प्र नो मुञ्चतम्"। अत्र ओत्परकत्वान्न णत्वमिति स्थितिः। तद्भङ्क्त्वेति।

तत्त्व-बोधिनी
उपसर्गाच्च ७४१, ५।४।११९

उपसर्गाच्च उपसर्गग्रहणं प्रादीनामुपलक्षणं, नासिकाशब्दस्याऽक्रियार्थत्वेन तं प्रत्युपसर्गत्वाऽयोगात्। न च क्रियायोगाभावेऽप्युपसर्गत्वमस्त्विति शङ्क्यं, सावके[इति]अधिसावकमित्यव्ययीभावे "उपसर्गात्सुनोती"ति सस्य षत्वप्रसङ्गात्। तदाह--प्रादेरिति।