पूर्वम्: ५।४।१२६
अनन्तरम्: ५।४।१२८
 
सूत्रम्
इच् कर्मव्यतिहारे॥ ५।४।१२७
काशिका-वृत्तिः
इच् कर्मव्यतिहारे ५।४।१२७

कर्मव्यतिहारे यो बहुव्रीहिः तस्मादिच् प्रत्ययो भवति। तत्र तेन इदम् इति सरूपे २।२।२७ इत्ययं बहुव्रीहिर् गृह्यते। केशेसु केशेसु गृहीत्वा इदं युद्धं प्रवृत्तं केशाकेशि। कचाकचि। मृसलैश्च मुसलैश्च प्रहृत्य इदं युद्धं प्रवृत्तं मुसलामुसलि। दण्डादण्डि। तिष्ठद्गुप्रभृतिषु अयम् इच् प्रत्ययः पठ्यते।
न्यासः
इच्? कर्मव्यतिहारे। , ५।४।१२७

"तत्र तेनेदमिति सरूपे" इत्ययं बहुव्रीहिर्गृह्रते" इति। अस्यैव कर्मध्यतिहारे वृत्तेः "केशाकेशि" (इति) "अन्येषामपि दृश्यते" ६।३।१३६ इति दीर्घः। तिष्ठद्गुप्रभृतिष्विच्प्रत्यस्य पाठादव्ययीभावसंज्ञा, अव्ययीभावश्च समासोऽव्ययसंज्ञो भवतीति। तेन सुब्लुग्भवतीति भावः। इचश्चित्करणं विशेषार्थम्()। यदि ह्रत्र चकारो न क्रियते, तदा तिष्ठद्गुप्रभृतिष्वपीकारमात्रं पठ()एत, तदेकारमात्रस्यापि ग्रहणं स्यात्()॥
बाल-मनोरमा
इच् कर्मव्यतिहारे ८५७, ५।४।१२७

इच्कर्मव्यतिहारे। समासान्त इति। तद्धित इत्यरि ज्ञेयम्। केशाकेशीति। अत्र प्रक्रिया प्रागेव प्रदर्शिता।

तत्त्व-बोधिनी
इच् कर्मव्यतिहारे ७४८, ५।४।१२७

केशकेशीति। "तत्र तेनेद"मिति कर्मव्यतिहारे बहुव्रीहिः। इच्प्रत्ययस्य तिष्ठद्गुप्रभृतिषु पाठादव्ययीभावत्बेऽव्ययत्वम्। नन्वेवमिचश्चित्करणं व्यर्थम्, अव्ययीभावसंज्ञाया बहुव्रीहिसंज्ञाया बाधात्समासस्वरेणान्तोदात्तत्वसिद्धेः। अत्राहुः--विशेषणार्तं तदावश्यकमेव। तिष्ठद्गुणप्रभृतिषु इकारमात्रपाठे हि सुगन्धिरित्यादावतिव्याप्तिप्रसङ्गात्। किञ्चात्राऽव्ययीभावसंज्ञया बहुव्राहिसंज्ञा न बाध्यते, किं तु द्वयोः समावेश एव, उपजीव्यविरोधस्याऽन्याय्यत्वात्। एवं च स्वरार्थमपि चित्त्वं कर्तव्यमेवेति।