पूर्वम्: ५।४।१३३
अनन्तरम्: ५।४।१३५
 
सूत्रम्
जायाया निङ्॥ ५।४।१३४
काशिका-वृत्तिः
जायाया निङ् ५।४।१३४

जायाशब्दान्तस्य बहुव्रीहेर् निङादेशः भवति। युवतिः जाया यस्य युवजानिः। वृद्धजानिः।
न्यासः
जायाया निङ्। , ५।४।१३४

"निङादेशो भवति" इति। आदेशत्वमस्य पूर्ववद्? ङित्त्वादेव विज्ञायते। "युवजानिः" इति। लोपो व्योर्वलि" ६।१।६४ इति यलोपः। "स्त्रियाः पुंवत्()" ६।३।३३ इति पुंवद्भावः॥