पूर्वम्: ५।४।१३४
अनन्तरम्: ५।४।१३६
 
सूत्रम्
गन्धस्येदुत्पूतिसुसुरभिभ्यः॥ ५।४।१३५
काशिका-वृत्तिः
गन्धस्य इदुत्पूतिसुसुरभिभ्यः ५।४।१३५

उत् पूति सु सुरभि इत्येतेभ्यः परस्य गन्धशब्दस्य इकारादेशो भवति समासान्तो बहुव्रीहौ समासे। तकार उच्चारणार्थः। उद्गतो गन्धो ऽस्य उद्गन्धिः। पूतिगन्धिः। सुगन्धिः। सुरभिगन्धिः। एतेभ्यः इति किम्? तीव्रगन्धो वातः। गन्धस्येत्वे तदेकान्तग्रहणम्। तेन शोभनः गन्धः अस्य सुगन्धः आपणिकः।
न्यासः
गन्धस्येदुत्पूतिसुसुरभिभ्यः। , ५।४।१३५

"इका आदेशो भवति" इति। कथं पुनज्र्ञायते--आदेशोऽयं न प्रत्यय इति? "गन्धस्य" इति षष्ठ()आ निर्देशात्()। यदि हि प्रत्ययः स्यात्? असन्दिग्धार्थं "गन्धात्()" इति पञ्चम्या निर्देशं कुर्यात्(), षष्ठ()आ तु निर्देशः। तस्मादादेशोऽयमिति विज्ञायते। "गन्धस्येत्त्वे" इत्यादि। गन्धो द्विविधः। गुणो गन्धः, सोऽन्यपदार्थस्यैकान्तो न भवति। यस्तु शोभनो गन्दोऽस्येति सुगन्ध आपणिक इति तत्र द्रव्यगन्धो गन्धशब्देनोच्यते, तच्चापणिकस्यैकदेशो भवति। तत्र गुणगन्धे यथा स्यात्(), द्रव्यगन्धे मा भूदित्येवमर्थं गन्धस्येत्त्वे विधेये तदेकान्तग्रहणं कत्र्तव्यम्()। तदित्यनेन बहुव्रीह्रर्थः सामथ्र्यान्निर्दिश्यते। तस्यैकान्त एकदेशो वा धर्मोऽवयवस्तदेकान्तः संगृह्रते। येन तदेकान्तग्रहणं कत्र्तव्यम्()। एतदुक्तं भवति--तादृशं व्याख्यानं कत्र्तव्यं येनेत्त्वविधाविह गन्धोऽन्यपदार्थस्यैकदेशात्? तत आश्रयितव्य इति। तत्रेदं व्याख्यानम्()--"वा संज्ञायाम्()" ५।४।१३३ इत्यतो वाग्रहममनुवत्र्तते, सा च व्यवस्थितविभाषा। तेन यत्र गन्धोऽन्यपदार्थस्यैकदेशभूतस्तत्रैवेत्त्वं भवति, नान्यत्रेति। अथ वा--अस्त्ययं गन्धशब्दो द्रव्यवचनः---गन्धान्? विक्रीणीत इति। अस्ति गुणवचनो यथा--गन्धवती पृथिवी। तत्र गुणवचनस्येदं ग्रहणम्(), न द्रव्यवचनस्य। तस्माद्द्रव्यवचनो बहवचनान्त एव द्रव्ये वत्र्तते--गन्धान विक्रीणीते, गन्धाः पण्यमस्येति। इह गन्धस्येत्यकवचनेनैव निर्देशः। तस्मादवसीयते--गुणवचनस्येदं ग्रहणमिति। गुणवचनस्य तु ग्रहणे तत्र गुणो गन्धोऽन्यपदार्थस्यैकदेशो भवति, तेन तदेकान्तभूतस्यैव गन्धस्येत्त्वं भवति॥
बाल-मनोरमा
गन्धस्येदुत्पूतिसुसुरभिभ्यः ८६४, ५।४।१३५

गन्धस्येदुत्। "गन्धस्य-इत्" इति च्छेदः। एभ्य इति। उत्-पूति-सु-सुरभि-एतेभ्यः इत्यर्थः। इकारोऽन्तादेश इति। पूर्वोत्तरसाहचर्यादिकार आदेश एवेति भावः। समासान्ताधिकारात् "आदेः परस्ये"ति न भवति। उद्नन्धिरिति। उद्गतो गन्धो यस्येति विग्रहः। पूतिगन्धिरिति। पूतिशब्दोऽसुरबौ। पूर्तिर्गन्धो यस्येति विग्रहः। सुगन्धिरिति। शोभनो गन्धो यस्येति विग्रहः। पूतिगन्धिरिति। पूतिशब्दोऽसुरभौ। पूर्तिर्गन्धो यस्येति विग्रहः। सर्वत्र "वायु"रिति विशेष्यम्। तदेकान्तेति। तस्य =विशेष्यभूतद्रव्यस्य, एकान्तः=एकदेश इव प्रतीयमान इत्यर्थः। अत्र गन्धस्य गुणस्य द्रव्यैकदेशत्वं न युज्यत इत्याशङ्क्य एकान्तशब्द एकदेशवदविभक्ते लाक्षणिक इत्याह--एकान्त एकदेश इवेति। सुगन्धि पुष्पं सलिलं चेति। अत्र गन्धस्य पुष्पात्सलिलाच्च द्रव्यात्पृथगलक्ष्यमाणत्वादिति भावः। सु शोभना इति। "सु" इत्यस्य व्याख्यानं-शोभना इति। गन्धा इति। गन्धवन्त इत्यर्थः। "गुणवचनेभ्यो मतुपो लुगिष्टः" इति लुक्। द्रव्याणीति। चन्दनादीनीत्यर्थः। "गन्धा" इत्यस्य विशेष्यमेतत्। गन्धशब्दस्य नपुंसकद्रव्यविशेषणत्वेऽपि नियतलिङ्गत्वात्पुंस्त्व#ं युज्यते। "गन्धस्तु सौरभे नृत्ये गन्धके गर्वलेशयोः। स एव द्रव्यवचनो बहुत्वे पुंसि च स्मृतः" इति कोशात्। गन्ध आपण इति। अत्र गन्धशब्दवाच्यानां चन्दनादिद्रव्याणां विशेष्यभूतापणापेक्षया पृथग् लक्ष्यमाणत्वादित्त्वं नेति भावः।

तत्त्व-बोधिनी
गन्धस्येदुत्पूतिसुसुरभिभ्यः ७५३, ५।४।१३५

गन्धस्येत्। तकार उच्चारणार्थ इत्याशयेनाह---इकारोऽन्तादेश इति। "आदेः परस्ये"तीह न भवति, "समासान्ताः"इत्यधिकारात्। अत्र केचिदाहुः--इकारस्य प्रत्ययत्वेऽपि न क्षतिः, "यस्येति[चे"ति] लोपेनोद्गन्धिरित्यादिरूपसिद्धेः। न च "तित्स्वरित"मित्यन्तस्वरितत्वापत्तिर्न शङ्क्या, तकारस्योच्चारणार्थत्वाभ्युपगमात्। नापि षष्ठीनिर्देशादादेशत्वमेव न प्रत्ययत्वमिति वाच्यं, "गापोष्ट"गित्यादिप्रत्ययविधिष्वपि षष्ठीदर्शनादीति।

गन्धस्येत्वे तदेकान्तग्रहणम्। अविभागेनेति। एवं च गुणवाचिन एव ग्रहणं, न तु द्रव्यवाचिन इति फलितोऽर्थः। द्रव्याणीति। अस्ति च गन्धशब्दो द्रव्यवचनः, "वहति जलमियं पिनष्टि गन्धा"निति प्रयोगात्, "गन्धस्तु सौरबे नृत्ये गन्धके गर्वलेशयोः। स एव द्वव्यवचनो बहुत्वे पुंसि च स्मृतः" इति कोशाच्च। केचित्तु---"गन्धस्येत्वे"इति वार्तिके तदेकान्तशब्देन स्वाभाविकत्वं विवक्षितं, तेनागन्तुकस्य नेत्याहुः। तथा च भट्टिः---"आघ्रायिवान् गन्धवहः सुगन्धः"इति। व्याख्यातं च जयमङ्गलायां--"गन्धस्ये"त्यादिनेकारः समासान्तो न, "गन्धस्येत्वे तदेकान्तग्रहण"मिति वचनात्। सुगन्ध आपणिक इति यथेति। अतएव "भग्नबालसहकारसुगन्धौ"इत्यादीनां प्रमादिकत्वं दुर्घटवृत्तिकृतोक्तम्।