पूर्वम्: ५।४।१३६
अनन्तरम्: ५।४।१३८
 
सूत्रम्
उपमानाच्च॥ ५।४।१३७
काशिका-वृत्तिः
उपमानाच् च ५।४।१३७

उपमानात् परो यो गन्धशब्दः तस्य इकारादेशो भवति समासान्तो बहुव्रीहौ समासे। पद्मस्य इव गन्धो ऽस्य पद्मगन्धिः। उत्पलगन्धिः। करीषगन्धिः।
न्यासः
उपमानाच्च। , ५।४।१३७

बाल-मनोरमा
उपमानाच्च ८६६, ५।४।१३७

उपमानाच्च। उपमानवाचिपूर्वपदात्परस्यापि गन्धशब्दस्य इकारोऽन्तादेशः स्याद्बहुव्रीहावित्यर्थः। पद्मस्येवेति। फलितार्थकथनमिदम्। पद्मगन्ध इव गन्धो यस्येति विग्रहः। पद्मपदं पद्मसंबन्धिगन्धसदृशो लाक्षणिकम्। "सप्तम्युपमानपूर्वपदस्ये"ति समासः।