पूर्वम्: ५।४।१३९
अनन्तरम्: ५।४।१४१
 
सूत्रम्
संख्यासुपूर्वस्य॥ ५।४।१४०
काशिका-वृत्तिः
सङ्ख्यासुपूर्वस्य ५।४।१४०

सङ्ख्यापूर्वस्य सुपूर्वस्य च बहुव्रीहेः पादशब्दान्तस्य लोपो भवति समासान्तः। द्वौ पादौ अस्य द्विपात्। त्रिपात्। शोभनौ पादौ अस्य सुपात्।
लघु-सिद्धान्त-कौमुदी
संख्यासुपूर्वस्य ९७८, ५।४।१४०

पादस्य लोपः स्यात्समासान्तो बहुव्रीहौ। द्विपात्। सुपात्॥
न्यासः
संख्यासुपूर्वस्य। , ५।४।१४०

अनुपमानार्थमिदम्()॥
बाल-मनोरमा
सङ्ख्यासुपूर्वस्य ८६९, ५।४।१४०

सङ्ख्यासुपूर्वस्य। शेषपूरणेन सूत्रं व्याचष्टे--पादस्येति। उपमानात्परत्वाऽभावादप्राप्तौ वचनम्। द्विपादिति। द्वौ पादावस्येति विग्रहः। सुपादिति। शोभनौ पादावस्येति विग्रहः।