पूर्वम्: ५।४।१४
अनन्तरम्: ५।४।१६
 
सूत्रम्
अणिनुणः॥ ५।४।१५
काशिका-वृत्तिः
अणिनुणः ५।४।१५

अभिविधौ भाव इनुण् ३।३।४४ विहितः, तदन्तात् स्वार्थे अण् प्रत्ययो भवति। सांराविणं वर्तते। सांकूटिनम्।
न्यासः
अणिनुणः। , ५।४।१५

"सांराविणम्()" इति। "रु शब्दे" (धा। पा। १०३४) इत्येतस्मादिनुण्(), "अचो ञ्णिति"७।२।११५ इति वृद्धिः, इनुणन्तादण्()। स च पूर्ववत्? सगतेरेव भवति। "इनण्यनपत्ये" ६।४।१६४ इति प्रकृतिभावः। "सांकूटिनम्()" इति। "कूट दाहे" (धा। पा। १८९०) इति, "मृजूष्? शुद्धौ" (धा। पा। १०६६), "मृजेर्वृद्धिः" ७।२।११४, "शमित्याष्टाभ्यो घिनुण्()" ३।२।१४१ घकारे लुप्ते यद्यपीनुण्? भवति, तथापि तस्मादण्? न भवति; "स्थानान्ताद्विभाषा" ५।४।१० इत्यतो विवक्षार्थस्येतिकरणस्यानुवृत्तेः॥
तत्त्व-बोधिनी
अणिनुणः १५३४, ५।४।१५

अणिनुणः। अनेननुणोणानुबन्धो विशेषणार्थ इति ध्वनितम्। सांराविममिति॥ समन्ताच्छब्द इत्यर्थः। संशब्दोऽभिविधिद्योतकः। पर्ववत्सगतिकादण्। अणस्तद्धितत्वादादिवृद्धिः। "इनण्यनपत्ये" इत्यनपत्याऽणि इनः प्रकृतिभावात् "नस्तद्धिते" इति टिलोपेन न निवृत्तिः। स्वभावतश्चेदमणिनुणन्तं नपुंसकम्।