पूर्वम्: ५।४।१४९
अनन्तरम्: ५।४।१५१
 
सूत्रम्
सुहृद्दुर्हृदौ मित्रामित्रयोः॥ ५।४।१५०
काशिका-वृत्तिः
सुहृद्दुर्हृदौ मित्रामित्रयोः ५।४।१५०

सुहृत् दुर्हृतिति निपात्यते यथासङ्ख्यं मित्रामित्रयोरभिधेययोः। सुशब्दात् परस्य हृदयशब्दस्य हृद्भावो निपात्यते बहुव्रीहौ, तथा दुःशब्दात् परस्य। शोभनं हृदयम् अस्य सुहृत् मित्रम्। दुष्टं हृदयम् अस्य दुर्हृतमित्रम्। मित्रामित्रयोः इति किम्? सुहृदयः कारुणिकः। दुर्हृदयः चोरः।
लघु-सिद्धान्त-कौमुदी
सुहृद्दुर्हृदौ मित्रामित्रयोः ९८१, ५।४।१५०

सुदुर्भ्यां हृदयस्य हृद्भावो निपात्यते। सुहृन्मित्रम्। दुर्हृदमित्रः॥
न्यासः
सुह्मद्रदुह्र्मदौ मित्त्रामित्रयोः। , ५।४।१५०

बाल-मनोरमा
सुह्मद्दुह्र्मदौमित्राऽमित्रयोः ८७९, ५।४।१५०

सुह्मद्दुह्र्मदौ। यथासङ्ख्यमभिप्रेत्योदाहरति--सुह्मन्मित्रमिति। सु शोभनं ह्मदयं यस्येति विग्रहः।