पूर्वम्: ५।४।१५५
अनन्तरम्: ५।४।१५७
 
सूत्रम्
ईयसश्च॥ ५।४।१५६
काशिका-वृत्तिः
ईयसश् च ५।४।१५६

ईयसन्ताद् बहुव्रीहेः कप् प्रत्ययो न भवति। सर्वा प्राप्तिः प्रतिषिध्यते। बहवः श्रेयांसः अस्य बहुश्रेयान्। शेषाद् विभाषा ५।४।१५४ इत्यस्य प्रतिषेधः। बह्व्यः श्रेयस्यः अस्य बहुश्रेयसी। नद्यृतश्च ५।४।१५३ इत्यसय् प्रतिषेधः। ह्रस्वत्वम् अपि न भवति, ईयसो बहुव्रीहौ पुंवतिति वचनात्।
न्यासः
ईयसश्च। , ५।४।१५६

"सर्वा प्राप्तिः प्रतिषिध्यते" इति। ननु "अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा" (व्या। प। १९) इति शेषलक्षणस्यैव कपः प्रतिषेधः प्राप्नोति? नैष दोषः; कबत्रानुवत्र्तते, न शेषादिति। तेनायं कब्मात्रस्य प्रतिषेधो भविष्यति। "बहवः श्रेयांसः" इति। "द्विवचनविभज्योपपदे" ५।३।५७ इत्यादिनेयसुन्(), "प्रशस्यस्य श्रः" ५।३।६० इति श्रः। "ह्यस्वत्वमपि न भवति" इति। "गोस्त्रियोरुपसर्जनस्य" १।२।४८ इति ह्यस्वत्वं प्राप्नोति, तदपि न भवति। कस्मान्न भवति? इत्याह--"ईयसो बहुव्रीहेः" इत्यादिना। नात्र पुंवद्वचनेन स्त्रीप्रत्ययस्य निवृत्तिरभिप्रेता, किं तर्हि? ह्यस्वत्वप्रकरणात्? तदभावः। एतदुक्तं भवति---यथा पुंवद्भावे सतीकारस्य ह्यस्वोनभवति एवमीयसः परस्य स्त्रीप्रत्ययस्यापि न भवति॥
बाल-मनोरमा
ईयसश्च ८८५, ५।४।१५६

ईयसश्च। बहुश्रेयसीशब्दे श्रेयसीशब्दस्यैव प्रत्ययग्रहणपरिभाषया ईयसन्तत्वादाह--ईयसन्तोत्तरपदादिति। बहुव्रीहिणा उत्तरपदादित्याक्षिप्यत #इति भावः। न कबिति। "न संज्ञेयसो"रिति वक्तव्ये पृथग्योगकरणान्नित्यस्य वैकल्पिकत्य च कपोऽयं निषेध इति भावः। श्रेयांस इति। अतिशयेन प्रशस्ता इत्यर्थः। "द्विवचनविभज्य" इति ईयसुन्। "प्रशस्यस्य श्रः" इति श्रः, "आद्गुणः" इति गुणः। बहुश्रेयानिति। शैषिकः कब्निषिध्यते। ह्यस्वत्वे प्राप्ते इति। बह्व्यः श्रेयस्यो यस्येति बहुव्रीहिः। तत्र श्रेयसीशब्दस्योपसर्जनस्त्रीप्रत्ययान्तत्वात् "गोस्त्रियो"रिति ह्यस्वत्वे प्राप्ते इत्यर्थः।

ईयसो बहुव्रीहेरिति। ईयसन्ताद्बहुव्रीहेः परस्य स्त्रीप्रत्ययस्य ह्यस्वो नेति वाच्यमित्यर्थः। बहुश्रेयसीति। "नद्यृतश्चे"ति नित्यः कबिह निषिध्यते, लिङ्गविसिष्टपरिभाषया ईयस्ग्रहणेन स्त्रीप्रत्ययान्तश्रेयसीशब्दस्यापि ग्रहणादिति भावः। बहुव्रीहेः किमिति। ईयसो बहुव्रीहेरित्यत्रे"ति शेषः। अतिश्रेयसिरिति। श्रेयसीमतिक्रान्त इति तत्पुरुषोऽयमिति भावः।

तत्त्व-बोधिनी
ईयसश्च ७६५, ५।४।१५६

ईयसश्च। नित्यो वैकल्पिकश्च कप्सर्वोऽपि निषिध्यते। बहुश्रेयानिति। अतिशयेन प्रशस्यः--श्रेयान्। "द्विवचनविभज्योपे"तीयसुन्। "प्रशस्यस्य श्रः"। "शेषद्विभाषे"ति कप्प्राप्तः।

ईयसो बहुव्रीहेर्नेति वाच्यम्। बहुश्रेयसीति। "नद्यृतश्चे"ति नित्यं प्राप्तः कब्लङ्गविशिष्टपरिभाषया "ईयसश्चे"ति प्रतिषिध्यते।