पूर्वम्: ५।४।१५९
अनन्तरम्: ६।१।१
 
सूत्रम्
निष्प्रवाणिश्च॥ ५।४।१६०
काशिका-वृत्तिः
निष्प्रवाणिश् च ५।४।१६०

निष्प्रवाणिः इति नदीलक्षणस्य कपः प्रतिषेधो निपात्यते। प्रोयते ऽस्याम् इति प्रवाणी। प्रवयन्ति तया वा इति प्रावाणी। करणसाधनो ऽयं ल्युट्। तन्तुवायशलाका भ्ण्यते। निर्गता प्रवाणी अस्य निष्प्रवाणिः पटः। निष्प्रवाणिः कम्बलः। अपनीतशलाकः समाप्तवानः प्रत्यग्रो नवकः उच्यते। इति श्रीवामनविरचितायां काशिकायां वृत्तौ पञ्चमाध्यायस्य चतुर्थः पदःषष्टो ऽध्यायः प्रथमः पादः।
न्यासः
निष्प्रवाणिश्च। , ५।४।१६०

इति बोधिसत्त्वदेशीयाचार्य श्रीजिनेन्द्रबुद्धिपादविरचितायां काशिकाविवरणपञ्चिकायां पञ्चमाध्यायस्य चतुर्थः पादः॥ समाप्तश्चायं पञ्चमोऽध्यायः * * * षष्ठोऽध्यायः प्रथमः पादः
बाल-मनोरमा
निष्प्रवाणिश्च ८८८, ५।४।१६०

निष्प्रवाणिश्च। प्रपूर्वादिति। "वेञ्तन्तुसंताने" इत्यस्मात्प्रपूर्वात् "करणाधिकरणयोश्चे"त्यधिकरणे ल्युट्। प्रोयते अस्यामिति प्रवाणी। "पूर्वपदात्संज्ञाया"मिति णत्वम्। समाप्तवान इति। समाप्तं वानं=वानक्रिया यस्येति विग्रहः। अत्र शैषिककबभावो निपात्यते।