पूर्वम्: ५।४।१६
अनन्तरम्: ५।४।१८
 
सूत्रम्
संख्यायाः क्रियाऽभ्यावृत्तिगणने कृत्वसुच्॥ ५।४।१७
काशिका-वृत्तिः
सङ्क्यायाः क्रियाऽभ्यावृत्तिगणने कृत्वसुच् ५।४।१७

सङ्ख्याशब्देभ्यः क्रियाभ्यावृत्तिगणने वर्तमानेभ्यः स्वार्थे कृत्वसुच् प्रत्ययो भवति। पौनःपुन्यम् अभ्यावृत्तिः। एकककार्तृणां तुल्यजातीयानां क्रियाणां जन्मसङ्ख्यानं क्रियाभ्यावृत्तिगणनं, तत्र प्रत्ययः। पञ्चवारान् भुङ्क्ते पञ्चकृत्वः। सप्तकृत्वः। सङ्ख्यायाः इति किम्? मूरीन् वारान् भुङ्क्ते। क्रियाग्रहणम् किमर्थम्, यावता अभ्यवृत्तिः क्रियाया एव सम्भवति, न द्रव्यगुणयोः? उत्तरार्थं क्रियाग्रहणम्। एकस्य सकृच् च ५।४।१९ इत्यत्र क्रिय एव गण्यते, न अभ्यावृत्तिः, असम्भवात्। अभ्यावृत्तिग्रहणं किम्? क्रियामात्रग्रहणे मा भूत्। पञ्च पाकाः। दश पाकाः। गणनग्रहणं किमर्थम्, यावता गणनात्मिकैव सङ्ख्या? अक्रियमाणे गणनग्रहणे क्रियाभ्यावृत्तौ वर्तमानेभ्यः सङ्ख्येयवचनेभ्य एव प्रत्ययः स्यात्, शतवारान् भुङ्क्ते शतकृत्वः इति? इह न स्यात्, शतं वाराणां भुङ्क्ते इति? न ह्यत्र अभ्यावृत्तौ शतशब्दः, सङ्ख्यानमात्रवृत्तित्वात्। गणनग्रहणात् तु सर्वत्र सिद्धं भवति।
न्यासः
संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच्?। , ५।४।१७

"पौनःपुन्यमभ्यावृत्तिः" इति। पौनः पुन्येनात्र साहचर्यादेककर्त्तृकाणां तुल्यजातीयानां सोपलक्ष्यते, अत एवाह--"एककर्त्तृकाणाम्()" इत्यादि। एककर्त्तृकाणामित्यत्र हि संख्येयानुकृष्ट उपसंख्यातगुणस्तन्मात्रे वत्र्तते। संख्याशब्देऽत एव व्यतिरेकनिबन्धना षष्ठी भवति। क्रियागणनमभ्यावृत्तिर्भवत्येव। "पञ्चकृत्वो भुङ्क्ते" इति। क्रियायाः पञ्चोत्पत्तीः करोतीत्यर्थः। "भूरीन्? वारान्? भुङ्क्ते" इति। यदि संख्याग्रहणं न क्रियते, ततो यथा पञ्चादिभ्यः संख्याशब्देभ्यः प्रत्ययो भवति, तथा भूय्र्यादिभ्योऽपि स्यात्(); संख्याग्रहणान्न भवति। "अभ्यावृत्तिः क्रियाया एव सम्भवति" इत्यादी। ननु च द्रव्यगुणयोरपि सम्भवति--पुनः पुनर्दण्डी, पुनः पुनः स्थूल इत्यादि? नैतदस्ति; अत्र सामथ्र्यात्? क्रियाभ्यावृत्तिः--पुनः पुनर्दण्डी भवति, पुनःपुनः स्थूलो भवतीति। तस्मादभ्यावृत्तिः क्रियाया एव सम्भवति, न द्रव्यगुणयोरपि। पुनः पुनर्दण्डीति--अत्र सामथ्र्याल्लभ्या क्रियेति क्रियाग्रहणं न कत्र्तव्यम्()। "एकस्य सकृच्चेत्यत्र" इत्यादि। एकशब्देन ह्रेकैव क्रियाव्यक्तिराख्यायते। न चैकस्यां क्रियाव्यक्तावभ्यावृत्तिः सम्भवति, किं तर्हि? अनेकासु क्रियाव्यक्तिषु। तथा च प्रागुक्तम्()--एककर्त्तृकाणामित्यादि। तस्मादेकस्य सकृच्च क्रियैव गण्यते, नाभ्यावृत्तिः। तस्मादसति क्रियाग्रहणे एकशब्दात्? क्रियागणने प्रत्ययो न लभ्यते। तस्मादुत्तरार्थं क्रियाग्रहणं कत्र्तव्यम्()। "पञ्चपाकाः" इति। "क्रियागणने" इत्येतावत्युच्यमानेऽत्रापि स्यात्(), अस्ति ह्रत्र क्रियागणनम्()। अभ्यावृत्तिर्हि भिन्नकालानां क्रियाणां भवति, इह त्वभिन्नकाला एव पाका गण्यन्ते, अतस्तद्व्यावृत्तिः। ननु च क्रियाप्यत्र नास्त्येव, धात्वर्थस्य सिद्धताख्यो यो धर्मस्तस्मिन्? घञो विधानात्()? नैष दोषः; सापि सिद्धता क्रियाप्रदेशेषु क्रियागरहणेन गृह्रत एव; धर्मधर्मिणोर्भेदस्याविवक्षितत्वात्()। अन्यथा कारकस्य गतिः, कारकस्य व्रज्येत्यत्र "तुमुन्ण्वुणौ क्रियायां क्रियार्थायाम्()" (३।३।१०) इति ण्वुल्? न स्यात्()। "अक्रियमाणे" इत्यादि। द्विविधाः संख्येयेवत्र्तमानेभ्यः संख्येयवचनेभ्य एव प्रत्ययः स्यात्()। "शतं वारान्? भुङ्क्ते शतकृत्वो भुङ्क्ते" इति। अत्र सोऽयमित्यभिसम्बन्धेन क्रियाभ्यावृत्तौ संख्येये शतशब्दो वत्र्तते। अत एव सामानाधिकरण्यम्()। शतं वारानिति संख्याने पत्र्तमानेभ्यो न स्यादिति दर्शयितुमाह--"इह न स्यात्()" इति। कुत एतदित्याह--"संख्यानमात्रवृत्तित्वात्()" इति। मात्रशब्दः संख्येयं विहाय शतं वाराणामिति स्यात्॥
बाल-मनोरमा
संख्यायाः क्रियाभ्यावृत्तिगणने कुत्वसुच् , ५।४।१७

संङ्ख्यायाः। अभ्यावृत्तिशब्देन यदि द्वितीयादिप्रवृत्तिर्गृह्रेत, तदा चतुर्वारं पाकप्रवृत्तौ त्रिः पचतीति स्यादित्यत आह--अभ्यावृत्तिर्जन्मेति। उपसर्गवशात् "वृतु वर्तने" इति धातोरुत्पत्तौ वृत्तिरिति भावः। कुत्वसुचि चकार इत्। उकार उच्चारणार्थः। "तद्धितश्चाऽसर्वविभक्ति"रित्यत्र तसिलादिषु परिगणनात्कृत्वोऽर्थानामव्ययत्वम्। पञ्चकृत् वो भुङ्क्त इति। पञ्चत्त्वसङ्ख्याकोत्पत्तिविशिष्टा भोजनक्रियेत्यर्थः। सङ्ख्यायाः किमिति। गणने वृत्तिः सङ्ख्याशब्दानामेवेति प्रश्नः। भूरिवारान्भुङ्क्ते इति। भूरिशब्दो बहुशब्दपर्यायः। वारशब्दस्तु समभिव्याह्मतक्रियापर्याप्ते काले वर्तते। "कालाध्वनोरत्यन्तसंयोगे" इति द्वितीया। बहुकालेषु कात्स्न्येन व्याप्ता भोजनक्रियेत्यर्थः। भोजनबहुत्वं त्वर्थाद्गम्यते। तथा च वारशब्दोऽयं न गणनवाची। भूरिशब्दोऽपि न सङ्ख्याशब्देन गृह्रते, "बहुगणवतुडति सङ्ख्ये"त्यत्र बहुग्रहणेन तत्पर्यायस्य असङ्ख्यात्वबोधनात्, अतोऽत्र न कृत्वसुच्।

तत्त्व-बोधिनी
संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच् १५५३, ५।४।१७

भूरिवारानिति। भूरिशब्दस्य लौकिकसङ्ख्यावाचित्वेऽपि नेह ग्रहणम्, "बहुगणे"ति सूत्रे बहुग्रहणमस्य नियमार्थत्वात्। "अनियतसङ्ख्यावाचिनां चेद्भवति बहोरेवे"ति नियमशरीरमिति मनोरमा। "बहुगणयोरेवे"ति नियमशरीरिमित्यन्ये। वारशब्दस्य क्रियोत्पत्त्याधारकालवाचित्वात् "कालाध्वनो"रिति द्वितीयेति हरदत्तः। ननु वारशब्दस्य कालवाचित्वे भूरिशब्दोऽपि तत्समानाधिकरणात्वात्काल एव वर्तत इति कथमत्र प्रसङ्ग इति चेत्। अत्राहुः-----कालवाचित्वेऽपि क्रियाभ्यावृत्तेरपि गम्यमानत्वात्प्रसङ्गैति। अभ्यावृत्तिगणने किम्()। पञ्चपाकाः, दश पाकाः---इत्यत्र क्रियामात्रगणने माभूत्। क्रियाग्रहणं किमर्थम्। यावताऽभ्यावृत्तिः क्रियाया एव भवति, साध्यार्थविषयत्वात्तस्याः,न द्रव्यगुणयोः, तयोस्तु सिद्धस्वभावतया शब्दाभिधानात्। "पुनःपुनर्दण्डः", "पुनः--पुनः स्थूलः"---इत्यत्रापि दम्यामानाया भवतिक्रियाया एवाभ्यावृत्तिर्न तु द्रव्यगुणयोरिति चेत्। मैवम्। उत्तरार्थं क्रियाग्रहणस्यावश्यकत्वात्।