पूर्वम्: ५।४।२०
अनन्तरम्: ५।४।२२
 
सूत्रम्
तत्प्रकृतवचने मयट्॥ ५।४।२१
काशिका-वृत्तिः
तत् प्रकृतवचने मयट् ५।४।२१

तदिति प्रथमासमर्थविभक्तिः। प्राचुर्येण प्रस्तुतं प्रकृतम्। प्रथमासमर्थात् प्रकृतोपाधिके ऽर्थे वर्तमानात् स्वार्थे मयट् प्रत्ययो भवति। टकारो ङीबर्थः। अन्नं प्रकृतम् अन्नमयम्। अपूपमयम्। अपरे पुनरेवम् सूत्रार्थम् आहुः। प्रक्र्तम् इति उच्यते ऽस्मिनिति प्रकृतवचनम्। तदिति प्रथमासमर्थात् प्रकृतवचने ऽभिधेये मयट् प्रत्ययो भवति। अन्नं प्रकृतम् अस्मिनन्नमयो यज्ञः। अपूपमयं पर्व। वटकमयी यात्रा। द्वयम् अपि प्रमाणम्, उभयथा सूत्रप्रणयनात्।
लघु-सिद्धान्त-कौमुदी
तत्प्रकृतवचने मयट् १२४२, ५।४।२१

प्राचुर्येण प्रस्तुतं प्रकृतम्, तस्य वचनं प्रतिपादनम्। भावे अधिकरणे वा ल्युट्। आद्ये प्रकृतमन्नमन्नमयम्। अपूपमयम्। द्वितीये तु अन्नमयो यज्ञः। अपूपमयं पर्व॥
न्यासः
तत्प्रकृतवचने मयट्?। , ५।४।२१

"प्राचुर्येण प्रस्तुतं प्रकृतम्()" इति। कृतः पुनरयं विशेषो लभ्यते, यावता प्रस्तुतमात्रवचनः प्रकृतशब्दः वचनग्रहणादिह प्रकृत इति वक्तव्ये वचनग्रहणम्()--यादृशस्य लोके प्रकृतस्य मयटो वचनं प्रत्ययान्तेन दृष्टं तत्रैव मयड()था स्यादित्येवमर्थम्()। लोके च मयट्प्रत्ययान्तं रन्नमयादिशब्दैः प्रकृतस्य प्राचुर्यमुच्यत इति वचनग्रहणादेव विशेषो लभ्यते। "अपरे तु" इत्यादि। अत्र प्रकृत्यर्थादर्थान्तर एव प्रत्ययः। प्रकृतशब्देन प्रस्तुतमात्रमुच्यते। न तु प्राचुय्र्यविशिष्टं प्रकृतमित्येष विशेषः। "उभयथा" इत्यादि। उभयथाप्यस्मिन्नर्थे सूत्रस्य प्रणयनादित्यर्थः॥