पूर्वम्: ५।४।२७
अनन्तरम्: ५।४।२९
 
सूत्रम्
अवेः कः॥ ५।४।२८
काशिका-वृत्तिः
अवेः कः ५।४।२८

अविशब्दात् स्वार्थे कः प्रत्ययो भवति। अविरेव अविकः।
न्यासः
अवेः कः। , ५।४।२८

बाल-मनोरमा
अवेः कः , ५।४।२८

अवेः कः। अयमपि केवलस्वार्थिकः। "अवयः शैलमेषाऽर्काः" इत्यमरः।