पूर्वम्: ५।४।२८
अनन्तरम्: ५।४।३०
 
सूत्रम्
यावादिभ्यः कन्॥ ५।४।२९
काशिका-वृत्तिः
यावादिभ्यः कन् ५।४।२९

याव इत्येवम् आदिभ्यः स्वार्थे कन्प्रत्ययो भवति। याव एव यावकः। माणिकः। याव। मणि। अस्थि। चण्ड। पीत। स्तम्ब। ऋतावुष्णशीते। पशौ लूनवियाते। अणु निपुणे। पुत्र कृत्रिमे। स्नात वेदसमाप्तौ। शून्य रिक्ते। दान कुत्सिते। तनु सूत्रे। ईयसश्च। श्रेयस्कः। ज्ञात। कुमारीक्रीडनकानि च। यावादिः।
न्यासः
यवादिभ्यः कन्?। , ५।४।२९

"ऋतौ" इत्यादि। उष्णशीते शब्दरूपे कनमुत्पादयत ऋतावभिधेये--उष्णक ऋतुः शीतक ऋतुः। अन्यत्र उष्णः, शीत इत्येव भवति। "पशौ लुनवियाते" इति। लूनवियाते शब्दरपे कनमुत्पादयतः पशावभिधेये--लूनकः पशुः, वियातकः पशुः। पशोरन्यत्र लूनम्(), वियातम्()। "अणु निपुणे" इति। अणुशब्दो निपुणार्थः कनमुत्पादयति--पुत्रकः। अन्यत्र पुत्रः। "स्नात वेदसमाप्तौ" इति। स्नातशब्दः कनमुत्पादयति वेदसमाप्तौ विवक्षितायाम्()। यस्य वेदः समाप्तः स स्नातक इत्युच्यते। वेदसमाप्तावपिति किम्()? नद्यां स्नातः। "शून्य रिक्ते" इति। शून्यशब्दः कनमुत्पादयति रिक्ते तच्छेऽभिधेये--शून्यकः, तुक्छ इत्यर्थः। अन्यत्र शून्यम्()। "दान कुत्सिते" इति। दानशब्दः कुत्सिते कनमुत्पादयति--कृत्सितं दानं दानकम्()। अन्यत्र तु दानम्()। "तेनु सूत्रे" इति। तनुशब्दः प्रत्यमुत्पादयति सूत्रे--तनुकम्()। अन्यत्र तनुः। "ईयसश्च" इति। ईयस्प्रत्यान्तात्? कन्? भवति--शेयस्कः। "कुमारीक्रीडनकानि च" इति। कुमारीणां यानि क्रीडनकानि तानि कनमुत्पादयन्ति--कन्दुकम्()॥
बाल-मनोरमा
यावादिभ्यः कन् , ५।४।२९

यावादिभ्यः कन्। यावक इति। यवानामयं यावः=ओदनादिः, स एव यावकः। अलक्तवृक्षो वा यावः, स एव यावकः। "यवोऽलक्तो द्रुमामयः" इत्यमरः।