पूर्वम्: ५।४।३३
अनन्तरम्: ५।४।३५
 
सूत्रम्
विनयादिभ्यष्ठक्॥ ५।४।३४
काशिका-वृत्तिः
विनयादिभ्यष् ठक् ५।४।३४

विनय इत्येवम् आदिभ्यः स्वार्थे ठक् प्रत्ययो भवति। विनय एव वैनयिकः। सामयिकः। औपयिकः। विभाषाग्रहणेन प्रत्ययो विकल्प्यते। विनय। समय। उपायाद्घ्रस्वत्वं च। सङ्गति। कथञ्चित्। अकस्मात्। समयाचार। उपचार। समाचार। व्यवहार। सम्प्रदान। समुत्कर्ष। समूह। विशेष। अत्यय। विनयादिः।
न्यासः
विनयादिभ्यष्ठक्?। , ५।४।३४

"उपायाध्यस्वत्वञ्च" इति। उपायशब्दठकमुत्पादयति, ह्यस्वत्वञ्च प्रतिपद्यते--औपयिकः॥
बाल-मनोरमा
विनयादिभ्यष्ठक् , ५।४।३४

विनयादिभ्यः। उपायाद्ध्रस्वत्वं चेति। गणसूत्रमिदम्। उपायशब्दात्स्वार्थे। ठक्, प्रकृतेदर्दीर्घस्य ह्यस्वत्वं चेत्यर्थः। ह्यस्वस्य ह्यस्वविधौ वैयथ्र्याद्दीर्घस्येति गम्यते।

वाचो व्याह्मतार्थायाम्। "इदमस्य वक्तव्य"मिति दूतं प्रति योऽर्थ उच्यते स व्याह्मतः,व्याह्मतोऽर्थो यस्या इति विग्रहः। तदाह--संदिष्टार्थायामिति।

तत्त्व-बोधिनी
विनयादिभ्यष्ठक् १५६४, ५।४।३४

उपाय इति। उपायशब्दष्ठकं लभते ह्यस्वत्वं चेत्यर्थः। अकस्माच्छब्दोऽत्र पठ()ते स तु दान्तो न तु तान्तः। तेन कादेशो न। "अव्ययाना भमात्रे टिलोपः"। आकस्मिकम्।