पूर्वम्: ५।४।३८
अनन्तरम्: ५।४।४०
 
सूत्रम्
मृदस्तिकन्॥ ५।४।३९
काशिका-वृत्तिः
मृदस् तिकन् ५।४।३९

मृच्छब्दात् स्वार्थे तिकन्प्रत्ययो भवति। विकल्पः स्र्वत्रानुवर्तते। मृदेव मृत्तिका।
न्यासः
मृदस्तिकन्?। , ५।४।३९

किमर्थं पुनस्तिकन्? विधीयते, न तकन्नेव विधीयेत, नित्यश्च स्त्रीप्रत्ययोऽयम्(), तत्र टापि कृते "प्रत्ययस्थात्? कात्()" (७।३।४४) इतीत्त्वेनैव सिद्धम्()? यत्र तर्हि लुग्भावः क्रियते, तत्र न सिद्ध्येत्()--पञ्चभिर्मृत्तिकाभिः क्रीतः पञ्चमृत्तिक इति। तत्र हि "अष्यद्र्धपर्वद्विगोः" (५।१।२८) इत्यादिनाऽ‌ऽर्हीयस्य ठ को लुकि कृते "लुक्? तद्धितलुकि" १।२।४९ इति स्त्रीप्रत्ययस्यापि लुक्()। तत्र यदि तकन्? विधीयते, तदा टापोऽभावादिकारो न न श्रूयेत, प्रक्रयागौरवं स्यात्(); इकगारस्य शास्त्रान्तरेण विधीयमानत्वात्()॥
तत्त्व-बोधिनी
मृदस्तिकन् १५६८, ५।४।३९

मृदस्तकन्। "प्रत्ययस्था"दित्येव सिद्धे इकारोच्चारणं प्रक्रियालाघवार्थं , टापो लुक्यपि श्रवणार्थं च। पञ्चभिर्मृत्तिकाभिः क्रीतः पञ्चमृत्तिकः पटः।