पूर्वम्: ५।४।४५
अनन्तरम्: ५।४।४७
 
सूत्रम्
अतिग्रहाव्यथनक्षेपेष्वकर्तरि तृतीयायाः॥ ५।४।४६
काशिका-वृत्तिः
अतिग्रहाव्यथनक्षेपेष्वकर्तरि तृतीयायाः ५।४।४६

अतिक्रम्य ग्रहः अतिग्रहः। अचलनम् अव्यथनम्। क्षेपो निन्दा। अतिग्रहादिविषये या तृतीया तदन्ताद् वा तसिः प्रत्ययो भवति, सा चेत् कर्तरि न भवति। वृत्तेन अतिगृह्यते वृत्ततो ऽतिगृह्यते। चारित्रेण अतिगृह्यते चारित्रतो ऽतिगृह्यते। सुष्ठुवृत्तवानन्यानतिक्रम्य वृत्तेन गृह्यते इत्यर्थः। अव्यथने वृत्तेन न व्यथते वृत्ततो न व्यथते। चारित्रेण न व्यथते चारित्रतो न व्यथते। वृत्तेन न चलति इत्यर्थः। क्षेपे वृत्तेन क्षिप्तो वृत्ततः क्षिप्तः। चारित्रेण क्षिप्तः चारित्रतः क्षिप्तः। वृत्तेन निन्दितः इत्यर्थः। अकर्तरि इति किम्? देवदत्तेन क्षिप्तः।
न्यासः
अतिग्रहाव्यथनक्षेपेष्वकत्र्तरि तृतीयायाः। , ५।४।४६

"अतिक्रम्य" इति। अनेनातिशब्दोऽत्रातिक्रमे वत्र्तत इति दर्शयति। "अचलनमध्यथनम्()" इति। "व्यथभयचलनयोः" (धा।पा। ७६४) इति पठ()ते, तस्येह चलने वृत्तिमाचष्टे। वृत्तेनेति हेतौ करणे वा तृतीया॥
तत्त्व-बोधिनी
अतिग्रहाऽव्यथनक्षेपेष्वकर्तरि तृतीयायाः १५७३, ५।४।४६

अतिगृह्रत इति। अन्याऽतिक्रमेण लौकैर्गृह्रत इत्यर्थः। फलितमाह---अन्यानतिक्रम्य वर्तत इति।