पूर्वम्: ५।४।४८
अनन्तरम्: ५।४।५०
 
सूत्रम्
रोगाच्चापनयने॥ ५।४।४९
काशिका-वृत्तिः
रोगाच् च अपनयने ५।४।४९

रोगो व्याधिः। तद् वाचिनः शब्दाद् या षष्थी विभक्तिः, तदन्ताद् वा तसिः प्रत्ययो भवति अपनयने गम्यमाने। अपनयनं प्रतीकारः। चिकित्सा इत्यर्थः। प्रवाहिकातः कुरु। कासतः कुरु। छर्दिकातः कुरु। प्रतीकारमस्याः कुरु इत्यर्थः। अपनयने इति किम्? प्रवाहिकायाः प्रकोपनं कुरु।
न्यासः
रोगाच्चापनयने। , ५।४।४९

"प्रवाहिकातः" इति। प्रवाहिकाशब्दात्? प्रतीकारापेक्षया षष्ठी, ततस्तसिः॥
तत्त्व-बोधिनी
रोगाच्चापनयने १५७४, ५।४।४९

प्रवाहिकात इति। "प्रच्छर्दिकातः कुर्वि"त्याद्यप्युदाहरणम्। प्रवाहिका---विषूचिका। प्रच्छर्दिका तु---वमनव्याधिः।