पूर्वम्: ५।४।५१
अनन्तरम्: ५।४।५३
 
सूत्रम्
विभाषा साति कार्त्स्न्ये॥ ५।४।५२
काशिका-वृत्तिः
विभाषा साति कार्त्स्न्ये ५।४।५२

अभूततद्भावे कृभ्वस्तियोगे सम्पद्यकर्तरि इति सर्वम् अनुवर्तते। अस्मिन् विषये विभाष सातिः प्रययो भवति कार्त्स्न्ये गम्यमाने। यदि प्रक्र्तिः कृत्स्नां विकारात्मतामापद्यते इत्यर्थः। अग्निसाद्भवति शस्त्रम्, अग्नीभवति शस्त्रम्। उदकसाद्भवति, उदकीभवति लवणम्। कार्त्स्न्ये इति किम्? एकदेशेन पटः शुक्लीभवति। विभाषाग्रहणम् च्वेः प्रापकम्। प्रत्ययविकल्पस् तु महाविभाषय एव सिद्धः।
लघु-सिद्धान्त-कौमुदी
विभाषा साति कार्त्स्न्ये १२४७, ५।४।५२

च्विविषये सातिर्वा स्यात्साकल्ये॥
न्यासः
विभाषा साति कार्त्स्न्ये। , ५।४।५२

"विभाषाग्रहणं च्वेः प्रापकम्()" इति। समुच्चयार्थत्वात्()। समुच्चयार्थत्वं त्वनेकार्थत्वान्निपातस्य। यद्येवम्(), चकार एव कस्मान्नोह्रः? वैचित्र्यात्? सूत्रकृतेः। अथ प्रत्ययदिकल्पार्थमेवेति विभाषाग्रहणं कस्मान्न भवति? इत्याह--"प्रत्ययविकल्पस्तु" इत्यादि॥
बाल-मनोरमा
विभाषा साति कार्त्स्न्ये , ५।४।५२

विभाषा साति। "साती"ति लुप्तप्रथमाकम्। च्विविषये इति। अभूततद्भावे संपद्यकर्तरि कृभ्यस्तियोगे इत्यर्थः।

तत्त्व-बोधिनी
विभाषा साति कार्त्स्न्ये १५७९, ५।४।५२

विभाषा साति। विभाष्यते विकल्प्यते इति विभाषा। "गुरोश्च हलः"इत्यकारप्रत्ययः। ततः टाप्। न त्विदमव्ययं "द्वयोर्विभाषयोर्मध्ये","पयसस्तु विभाषया"इत्यादौ बिभक्तेर्दर्शनात्। कृत्स्नमिति। सर्वावयवोपेतमित्यर्थः।