पूर्वम्: ५।४।५२
अनन्तरम्: ५।४।५४
 
सूत्रम्
अभिविधौ सम्पदा च॥ ५।४।५३
काशिका-वृत्तिः
अभिविधौ सम्पदा च ५।४।५३

अभिविधिः अभिव्याप्तिः। अभिविधौ गम्यमाने च्विविषये सातिः प्रत्ययो भवति सम्पदा योगे, चकारात् कृभ्वस्तिभिश्च। विभाषाग्रहणानुवृत्तेः च्विरप्यभ्यनुज्ञायते। स तु कृभ्वस्तिभिरेव योगे भवति, न सम्पदा। अग्निसात्सम्पद्यते, अग्निसाद्भवति। उदकसात्सम्पद्यते, उदकसाद्भवति लवणम्। अग्नीभवति। उदकीभवति। अथाभिविधेः कार्त्स्न्यस्य च को विशेषः? यत्र एकदेशेन अपि सर्वा प्रकृतिर् विकारम् आपद्यते सो ऽभिविधिः, यथा अस्यां सेनायाम् उत्पातेन सर्वं शस्त्रम् अग्निसात्सम्पद्यते, वर्षासु सर्वं लवणमुदकसात्सम्पद्यते इति। कार्त्स्न्यं तु सर्वात्मना द्रव्यस्य विकाररूपापत्तौ भवति।
न्यासः
अभिविधौ सम्पदा च। , ५।४।५३

"स तु कृभ्वस्तिभिरेव योगे भवति" इति। कृभ्वस्तिभिरित्येव योग इत्यनेन सम्बन्धस्यव तस्येहानुवृत्तेः। अभिविधेः कार्त्स्न्यस्य चावश्यं विशेषेण भवितव्यम्(); अन्यथा सूत्रद्वयारम्भो निष्फलः स्यात्(), एकेनैव सिद्धत्वात्()। स च विशेषो न ज्ञायते, इत्यतस्तत्? पृच्छति--"अताभिविधेः" इत्यादि। "यथास्यां सेनायाम्()" इत्यादि। अथ शेषाणां शस्त्राणामेकदेशेन ह्रात्मना सम्बन्धमात्रं विवक्षितम्(), न सर्वात्मना विकाररूपापत्तिः। "वर्षासु सर्व लवणमुदकसात्सम्पद्यते" इति। अत्रापि सर्वासां लवणव्यक्तीनामेकदेशेनोदकात्मताविकारेण सम्बन्धमात्रं विवक्षितम्()। न त्वेकस्य सर्वात्मना विकाररूपापत्तिः। "कात्स्न्यं तु" इत्यादि। यत्र ह्रेकस्यापि द्रव्यस्य सर्वात्मना विकाररूपापत्तिः, न त्वेकदेशेन, तत्र कार्त्स्न्य भवति। तत्र यदि पूर्वो योगो नारब्येत, यत्रैकद्रव्यविशेषविषयं कात्स्न्यं तत्र प्रत्ययोगो न स्यात्(); अभिविधेरभावात्()। अथायं नारभ्येत? यत्र सर्वाः प्रकृतय एकदेशेन विकारमापद्यन्ते न स्यत्()। तस्मादुभयमारब्धध्यम्()॥
तत्त्व-बोधिनी
अबिविधौ संपदा च १५८०, ५।४।५३

अग्निसाद्भवति शस्त्रमिति। जातावेकवचनम्। सर्वाणि शस्त्राणीत्यर्थः।