पूर्वम्: ५।४।५६
अनन्तरम्: ५।४।५८
 
सूत्रम्
अव्यक्तानुकरणाद्द्व्यजवरार्धादनितौ डाच्॥ ५।४।५७
काशिका-वृत्तिः
अव्यक्तानुकरणाद् द्व्यजवरार्धादनितौ डाच् ५।४।५७

यत्र ध्वनावकारादयो वर्णा विशेषरूपेण न व्यज्यन्ते सो ऽव्ह्यक्तः। तस्य अनुकरणम् अव्यक्तानुकरणम्। द्व्यचवरार्धं यस्य तद् द्व्यजवरार्धम्। अवरशब्दो ऽपकर्षे। यस्य अपकर्षे क्रियमाणे सुष्ठु न्यूनमर्धं द्व्यच्कं सम्पद्यते, तस्मादव्यक्तानुकरणादनितिपराड् डाच् प्रत्ययो भवति। कृभ्वस्तियोगे इत्यनुवर्तते। यस्य च द्विर्वचने कृते द्व्यजवरार्धं ततः प्रत्ययः। डाचि बहुलं द्वे भवतः इति विषयसप्तमी। डाचि विवक्षिते द्विर्वचनम् एव पूर्वं क्रियते, पश्चात् प्रत्ययः। पटपटाकरोति। पटपटाभवति। पटपटास्यात्। दमदमाकरोति। दमदमाभवति। दमदमास्यात्। अव्यक्तानुकरणातिति किम्? दृषत्करोति। द्वजवरार्धातिति किम्? श्रत्करोति। अवरग्रहणम् किम्? खरटखरटाकरोति। त्रपटत्रपटाकरोति। अनितौ इति किम्? पटिति करोति। चकारः स्वरार्थः, स्वरितबाधनार्थः। पटपटासि, अत्र स्वरितो वा ऽनुदात्ते पदादौ ८।२।६ इति स्वरितो न भवति। केचिद् द्व्यजवरार्ध्यादिति यकारं पठन्ति, स स्वर्थिको विज्ञेयः।
लघु-सिद्धान्त-कौमुदी
अव्यक्तानुकरणाद्द्व्यजवरार्धादनितौ डाच् १२५०, ५।४।५७

द्व्यजेवावरं न्यूनं न तु ततो न्यूनमनेकाजिति यावत्। तादृशमर्धं यस्य तस्माड्डाच् स्यात् कृभ्वस्तिभिर्योगे। (डाचि विवक्षिते द्वे बहुलम्)। इति डाचि विवक्षिते द्वित्वम्। (नित्यमाम्रेडिते डाचीति वक्तव्यम्)। डाच्परं यदाम्रेडितं तस्मिन्परे पूर्वपरयोर्वर्णयोः पररूपं स्यात्। इति तकारपकारयोः पकारः। पटपटाकरोति। अव्यक्तानुकरणात्किम्? ईषत्करोति। द्व्यजवरार्धात्किम्? श्रत्करोति। अवरेति किम्? खरटखरटाकरोति। अनितौ किम्? पटिति करोति॥
लघु-सिद्धान्त-कौमुदी
इति स्वार्थिकाः १६ १२५०, ५।४।५७

॥ इति तद्धिताः॥
लघु-सिद्धान्त-कौमुदी
अथ स्त्रीप्रत्ययाः १२५०, ५।४।५७

न्यासः
अव्यक्तानुकरणाद्द्व्यजवराद्र्धदनितौ डाच्?। , ५।४।५७

"अव्यकतस्यानुकरणमव्यक्तानुकरणम्()" इति। यद्यप्यनुकरणे वर्णविशेषो रूपेण न प्रकाशते, तथापि ध्वनेः समानतया तन्मात्रसादृश्येन स तवनुक्रियत इति तस्याप्यनुकरणमित्युच्यते। द्व्यजर्द्धं भवति तस्मात्? प्रत्ययो भवति, यस्य न ततोऽपि न्यूनतरमेकाज्भवति। यद्यकृते द्विवचने यस्य द्व्यजवराद्र्धता ततो डाज्भवतीति ज्ञायते, ततः पटदित्यादेर्न स्यात्(); न ह्रत्र द्व्यजवरमर्द्धं भवतीत्येतच्छेतसि कृत्वाऽ‌ऽह--"यस्य च" इत्यादि। नन्वेवं सति डाचि परभूते तदाश्रये द्विर्वचने कृते द्व्यजवराद्र्धता भवति, तस्याञ्च सत्यां डाजितीतरेतराश्रयः प्रसजति। इतरेतराश्रयाणि कार्याणि शास्त्रे न प्रकल्पन्ते? इत्याह---"डाचि बहुलम्()" इत्यादि। यद्येषा परसप्तमी स्यात्(), स्यादेष दोषः; न चैषा परसप्तमी, किं तर्हि? विषयसप्तमी। "पटपटाकरोति" इति। पटच्छब्दाड्डाचि विवक्षिते विषयभूते बुद्धिस्थेऽनुत्पन्न एव पूर्वं तावद्()द्विवैचनं पटच्छब्दस्य क्रियते, तस्मिन्? कृते द्व्यजवराद्र्धतायामुपजातायां डाचि टिलोपः, "नित्यमाभ्रेडिते डाचि" ६।१।९६ इति पूर्वस्य तकारस्य पररपत्वलम्(), "दमदमाकरोति" इति। वमच्छब्दस्य पूर्ववद्()द्धिर्वचनम्(), ततो डाच्()। "दृषत्करोति" इति। अत्रापि द्विर्वचने कृते द्व्यजवराद्र्धत भवतीति। नाव्यक्तस्येदमनुकरणम्()। "श्रत्करोति" इति। भवत्येतदव्यक्तानुकरणम्(), न द्व्यजवराद्र्धम्()। कृतेऽपि ह्रत्र द्विर्वचने एकाजवरमर्द्धं सम्पद्यते। "खरटखरटाकरोति" इति। खरटवित्येतस्यानुकरणस्यात्र पटदित्येतस्यानुकरणस्येव पूर्ववद्()द्धिर्वचनम्(), ततो डाच्()। यदि "द्व्यजद्र्धम्()" एतावदुच्येत, इह प्रत्ययो न स्यात्(), न ह्रत्र द्व्यजद्र्धतास्ति। अवरग्रहणे तु सतीहापि भवति। तत्र हि द्व्यचोऽद्र्धाद्यस्य न्यूनतरमद्र्ध तत एव प्रत्ययेन भवितव्यम्(), अन्यतस्तु सर्वतो भवितव्यमेव; अन्यथाऽवरग्रहणमनर्थकमेवेति द्व्यजद्र्धादित्येवं ब्रायात्()। "पटिति करोति" इति। "अध्यक्तानुकरणस्यात इतौ" ६।१।९५ इत्यच्छब्दस्य पररूपत्वम्()। यद्यत्र डाच्? स्यात्(), तस्य डाजन्तस्य परमिति शब्दमुच्चार्य करोतिरनन्तरः स्यादिति, न च तत्परम्(); तच्चानिष्टम्()। अथ चकारः किमर्थः, यावलतान्तोदात्तत्वं कृत्वादस्य प्रत्ययस्वरेणैव सिद्धम्()? इत्यत आह--"चकारः" इत्यादि। पटपटा असि इति स्थिते "तिङ्ङतिङः" ८।१।२८ इत्यसिशब्दस्य निघाते कृते "स्वरितो वानुदात्तेऽपदादौ" ८।२।६ इति स्वरित एकादेशः प्राप्नेति, न च स्वरित इष्यते, तदर्थ चकारः। "स्वार्थिको विज्ञेयः" इति। व्यतिरिक्तस्यार्थस्याभावात्()। केन पुनः स्वार्थिको यकारः? अनेनैव निपातनेन॥
बाल-मनोरमा
अव्यक्तानुकरणाद् द्व्यजवरार्धादनितौ डाच् , ५।४।५७

अव्यक्तानुकरणात्। यत्र ध्वनौ अकारादयो वर्णविशेषा न व्यज्यन्ते सोऽव्यक्तो ध्वनिः। तस्यानुकरणम्--अव्यक्तानुकरणम्। "द्व्यजवरार्ध"शब्दं व्याचष्टे--द्व्यजिति। द्वावचौ यस्येति विग्रहः। अवरशब्दं व्याचष्टे--न्यूनमिति। द्व्यजेव अवरं=न्यूनसंख्याकमिति सामानाधिकरण्येनान्वयः। न तु ततो न्यूनमिति। एकाच्कमित्यर्थः। फलितमाह--अनेकाजिति यावदिति। तादृशमर्थमिति। अनेकाच्कम् अर्धं=भागो यस्य तत्--द्व्यजवरार्धम्। तस्मादित्यर्थः। कृभ्वस्तिभिर्योगे इति। मण्डूकप्लुत्या तदनुवृत्तेरिति भावः।

तथा च अनेकाच्कभागयुक्तादव्यक्तानुकरणाच्छब्दात्कृभ्वस्तियोगे डाच् स्यादिति फलितम्। अथ पटच्छब्दादव्यक्तानुकरणाड्डाटमुदाहरिष्यन्पटच्छब्दस्य द्विर्वचनमाह--डाचि विवक्षिते द्वे बहुलमिति। यद्यपि "सर्वस्य द्वे" इति प्रकरणे "डाचि द्वे भवत इति वक्तव्य"मित्येव भाष्ये वार्तिकं पठितम्। तत्र डाचि परत इति नाऽर्थः, तथा सति डाचि सतु पटच्छब्दस्य द्विर्वचनं, सति च द्विर्वचने अद्र्धस्याऽनेकाच्त्वाड्डाजित्यन्योन्याश्रयापत्तेः। अतो डाचि विवक्षिते इत्याश्रितम्।

एवंच डाचि विवक्षिते पटच्छब्दस्य द्विर्वचने सति पटत् पटत् इत्यस्यानेकाच्कार्धभागयुक्तत्वाड्डाच् सूपपादः। पटत्, पटत् आ करोतीति स्थिते प्रक्रियां दर्शयति--नित्यमाम्रेडिते डाचीति। "एकः पूर्वपरयो"रित्यधिकारे पररूपप्रकरणे "नाम्रेडितस्यान्त्यस्य तु वे"ति सूत्रभाष्ये इदं वार्तिकं पठितम्। डाच्परमिति। डाच् परं यस्मादिति विग्रहः। पकार इति। तथा च पटपठत् आ करोतीति स्थिते डित्त्वाट्टिलोपे पटपटाकरोतीति रूपमित्यर्थः। अवरेति किमिति। द्व्यजर्दादित्येवास्त्वित्यर्थः। घरटघरटाकरोतीति। घरटत् इत्यव्यक्तानुकरणाड्डाचि द्विर्वचने पररूपे टिलोपे रूपम्। "द्व्यजर्धा"दित्युक्ते तु अर्धभागस्य घरटदित्यस्य बह्वच्कत्वाड्डाच् न स्यादित्यर्थः। अनेकाच इत्येवेति। "द्व्यजवरार्धा"दित्यपनीय "अव्यक्तानुकरणादनेकाचोऽनितौ डाजि"त्येव सूत्रयितुमुचितमित्यर्थः। एवं हीति। "अनेकाचोऽनितौ" इति पाठे सति पटच्छब्दस्य द्वित्वात्प्रागेव अनेकाच्कत्वाड्डाच् संभवतीति "डाचि परतो द्वित्व"मिति वक्तुं शक्यमिति भावः। पटितीति। "अव्यक्तानुकरणस्ये"ति पररूपम्।